001 सञ्जय उवाच 001a प्रभातायां तु शर्वर्यां भीष्मः शान्तनवस्ततः 001c अनीकान्यनुसंयाने व्यादिदेशाथ भारत 002a गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा 002c पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः 003a गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव 003c चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः 004a अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ 004c त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ 005a भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष 005c मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये 006a जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः 006c पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः 007a विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह 007c पुच्छमासन्महाराज शूरसेनाश्च सर्वशः 008a मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह 008c दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः 009a काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा 009c बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः 010a व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः 010c धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे 010e अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् 011a दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत 011c नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः 012a तदन्वेव विराटश्च द्रुपदश्च महारथः 012c तदनन्तरमेवासीन्नीलो नीलायुधैः सह 013a नीलादनन्तरं चैव धृष्टकेतुर्महारथः 013c चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः 014a धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः 014c मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत 015a तथैव धर्मराजोऽपि गजानीकेन संवृतः 015c ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः 016a अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम् 016c भैमसेनिस्ततो राजन्केकयाश्च महारथाः 017a ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः 017c सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः 018a एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः 018c वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः 019a ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् 019c तावकानां परेषां च निघ्नतामितरेतरम् 020a हयौघाश्च रथौघाश्च तत्र तत्र विशाम्पते 020c सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् 021a धावतां च रथौघानां निघ्नतां च पृथक्पृथक् 021c बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः 022a दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् 022c सम्प्रहारे सुतुमुले तव तेषाञ्च भारत