001 सञ्जय उवाच 001a गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत 001c रथनागाश्वपत्तीनां सादिनां च महाक्षये 002a द्रोणपुत्रेण शल्येन कृपेण च महात्मना 002c समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः 003a स लोकविदितानश्वान्निजघान महाबलः 003c द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः 004a ततः शल्यरथं तूर्णमास्थाय हतवाहनः 004c द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः 005a धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत 005c सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् 006a स शल्यं पञ्चविंशत्या कृपञ्च नवभिः शरैः 006c अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ 007a आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा 007c शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः 008a लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् 008c अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत 009a दौर्योधनिस्तु सङ्क्रुद्धः सौभद्रं नवभिः शरैः 009c विव्याध समरे राजंस्तदद्भुतमिवाभवत् 010a अभिमन्युस्तु सङक्रुद्धो भ्रातरं भरतर्षभ 010c शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत 011a लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा 011c मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः 012a तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा 012c अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् 013a तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ 013c अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ 014a ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् 014c पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः 015a सन्निवृत्ते तव सुते सर्व एव जनाधिपाः 015c आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् 016a स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः 016c न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः 017a सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनञ्जयः 017c अभिदुद्राव सङ्क्रुद्धस्त्रातुकामः स्वमात्मजम् 018a ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः 018c अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् 019a उद्धूतं सहसा भौमं नागाश्वरथसादिभिः 019c दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत 020a तानि नागसहस्राणि भूमिपालशतानि च 020c तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः 021a प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः 021c कुरूणामनयस्तीव्रः समदृश्यत दारुणः 022a नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः 022c प्रजज्ञे भरतश्रेष्ठ शरसङ्घैः किरीटिनः 023a सादितध्वजनागास्तु हताश्वा रथिनो भृशम् 023c विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः 024a विरथा रथिनश्चान्ये धावमानाः समन्ततः 024c तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः 025a हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः 025c अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः 026a रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः 026c पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः 027a सगदानुद्यतान्बाहून्सखड्गांश्च विशाम्पते 027c सप्रासांश्च सतूणीरान्सशरान्सशरासनान् 028a साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् 028c निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा 029a परिघाणां प्रवृद्धानां मुद्गराणां च मारिष 029c प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे 030a परश्वधानां तीक्ष्णानां तोमराणां च भारत 030c वर्मणां चापविद्धानां कवचानां च भूतले 031a ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः 031c छत्राणां हेमदण्डानां चामराणां च भारत 032a प्रतोदानां कशानां च योक्त्राणां चैव मारिष 032c राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ 033a नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत 033c योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथञ्चन 034a यो यो हि समरे पार्थं पत्युद्याति विशाम्पते 034c स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते 035a तेषु विद्रवमाणेषु तव योधेषु सर्वशः 035c अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ 036a तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव 036c अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव 037a एष पाण्डुसुतो वीरः कृष्णेन सहितो बली 037c तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः 038a न ह्येष समरे शक्यो जेतुमद्य कथञ्चन 038c यथास्य दृश्यते रूपं कालान्तकयमोपमम् 039a न निवर्तयितुं चापि शक्येयं महती चमूः 039c अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी 040a एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते 040c वपूंषि सर्वलोकस्य संहरन्निव सर्वथा 041a तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ 041c श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन 042a एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् 042c अवहारमथो चक्रे तावकानां महारथः 043a ततोऽवहारः सैन्यानां तव तेषां च भारत 043c अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति