001 धृतराष्ट्र उवाच 001a तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः 001c कथमद्भुतकर्माणं भीमसेनं महाबलम् 002a चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् 002c योधयामास समरे कलिङ्गः सह सेनया 003 सञ्जय उवाच 003a पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः 003c महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति 004a तामापतन्तीं सहसा कलिङ्गानां महाचमूम् 004c रथनागाश्वकलिलां प्रगृहीतमहायुधाम् 005a भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् 005c केतुमन्तं च नैषादिमायान्तं सह चेदिभिः 006a ततः श्रुतायुः सङ्क्रुद्धो राज्ञा केतुमता सह 006c आससाद रणे भीमं व्यूढानीकेषु चेदिषु 007a रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः 007c अयुतेन गजानां च निषादैः सह केतुमान् 007e भीमसेनं रणे राजन्समन्तात्पर्यवारयत् 008a चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः 008c अभ्यवर्तन्त सहसा निषादान्सह राजभिः 009a ततः प्रववृते युद्धं घोररूपं भयानकम् 009c प्रजानन्न च योधान्स्वान्परस्परजिघांसया 010a घोरमासीत्ततो युद्धं भीमस्य सहसा परैः 010c यथेन्द्रस्य महाराज महत्या दैत्यसेनया 011a तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत 011c बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः 012a अन्योन्यस्य तदा योधा निकृन्तन्तो विशाम्पते 012c महीं चक्रुश्चितां सर्वां शशशोणितसन्निभाम् 013a योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया 013c स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः 014a विमर्दः सुमहानासीदल्पानां बहुभिः सह 014c कलिङ्गैः सह चेदीनां निषादैश्च विशाम्पते 015a कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः 015c भीमसेनं परित्यज्य सन्न्यवर्तन्त चेदयः 016a सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु 016c स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः 017a न चचाल रथोपस्थाद्भीमसेनो महाबलः 017c शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम् 018a कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः 018c शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः 019a ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः 019c योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः 020a शक्रदेवस्तु समरे विसृजन्सायकान्बहून् 020c अश्वाञ्जघान समरे भीमसेनस्य सायकैः 020e ववर्ष शरवर्षाणि तपान्ते जलदो यथा 021a हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः 021c शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् 022a स तया निहतो राजन्कलिङ्गस्य सुतो रथात् 022c सध्वजः सह सूतेन जगाम धरणीतलम् 023a हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः 023c रथैरनेकसाहस्रैर्भिमस्यावारयद्दिशः 024a ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम् 024c उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम् 025a चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ 025c नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् 026a कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह 026c प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् 026e प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः 027a तमापतन्तं वेगेन प्रेरितं निशितं शरम् 027c भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना 027e उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् 028a कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे 028c तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् 029a तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः 029c चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना 030a निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश 030c भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः 031a भानुमांस्तु ततो भीमं शरवर्षेण छादयन् 031c ननाद बलवन्नादं नादयानो नभस्तलम् 032a न तं स ममृषे भीमः सिंहनादं महारणे 032c ततः स्वरेण महता विननाद महास्वनम् 033a तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी 033c न भीमं समरे मेने मानुषं भरतर्षभ 034a ततो भीमो महाराज नदित्वा विपुलं स्वनम् 034c सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम् 035a आरुरोह ततो मध्यं नागराजस्य मारिष 035c खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् 036a सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः 036c गुरुभारसहस्कन्धे नागस्यासिमपातयत् 037a छिन्नस्कन्धः स विनदन्पपात गजयूथपः 037c आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः 038a ततस्तस्मादवप्लुत्य गजाद्भारत भारतः 038c खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः 039a स चचार बहून्मार्गानभीतः पातयन्गजान् 039c अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत 040a अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः 040c पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः 040e श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः 041a छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः 041c खड्गेन शितधारेण संयुगे गजयोधिनाम् 042a पदातिरेकः सङ्क्रुद्धः शत्रूणां भयवर्धनः 042c मोहयामास च तदा कालान्तकयमोपमः 043a मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् 043c सासिमुत्तमवेगेन विचरन्तं महारणे 044a निकृत्य रथिनामाजौ रथेषाश्च युगानि च 044c जघान रथिनश्चापि बलवानरिमर्दनः 045a भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत 045c भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् 045e सम्पातं समुदीर्यं च दर्शयामास पाण्डवः 046a केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना 046c विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः 047a छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे 047c वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः 047e निपेतुरुर्व्यां च तथा विनदन्तो महारवान् 048a छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च 048c परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः 049a ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा 049c तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च 050a अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह 050c घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि 050e पततः पतितांश्चैव पश्यामः सह सादिभिः 051a छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः 051c आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव 052a विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः 052c अश्वारोहवरांश्चापि पातयामास भारत 052e तद्घोरमभवद्युद्धं तस्य तेषां च भारत 053a खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः 053c परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः 054a कवचान्यथ चर्माणि चित्राण्यास्तरणानि च 054c तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे 055a प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा 055c स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव 056a आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः 056c पातयामास खड्गेन सध्वजानपि पाण्डवः 057a मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः 057c मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः 058a निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत् 058c खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् 059a ऊरुवेगेन चाप्यन्यान्पातयामास भूतले 059c अपरे चैनमालोक्य भयात्पञ्चत्वमागताः 060a एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् 060c परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् 061a ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ 061c श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् 062a तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः 062c भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे 063a कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः 063c भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः 064a अथाशोकः समादाय रथं हेमपरिष्कृतम् 064c भीमं सम्पादयामास रथेन रथसारथिः 065a तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः 065c कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् 066a ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान् 066c प्रेषयामास सङ्क्रुद्धो दर्शयन्पाणिलाघवम् 067a स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः 067c समाहतो भृशं राजन्कलिङ्गेन महायशाः 067e सञ्चुक्रुधे भृशं भीमो दण्डाहत इवोरगः 068a क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः 068c कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः 069a क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ 069c सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् 070a ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः 070c केतुमन्तं रणे भीमोऽगमयद्यमसादनम् 071a ततः कलिङ्गाः सङ्क्रुद्धा भीमसेनममर्षणम् 071c अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् 072a ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः 072c कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् 073a सन्निवार्य स तां घोरां शरवृष्टिं समुत्थिताम् 073c गदामादाय तरसा परिप्लुत्य महाबलः 073e भीमः सप्तशतान्वीराननयद्यमसादनम् 074a पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः 074c प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् 075a एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः 075c बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम् 076a हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना 076c विप्रजग्मुरनीकेषु मेघा वातहता इव 076e मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः 077a ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली 077c सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् 078a मोहश्चापि कलिङ्गानामाविवेश परन्तप 078c प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः 079a भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः 079c मार्गान्बहून्विचरता धावता च ततस्ततः 079e मुहुरुत्पतता चैव सम्मोहः समजायत 080a भीमसेनभयत्रस्तं सैन्यं च समकम्पत 080c क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत्सरः 081a त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा 081c पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः 082a सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः 082c अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः 083a सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः 083c भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः 084a धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः 084c महता मेघवर्णेन नागानीकेन पृष्ठतः 085a एवं सञ्चोद्य सर्वाणि स्वान्यनीकानि पार्षतः 085c भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् 086a न हि पाञ्चालराजस्य लोके कश्चन विद्यते 086c भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः 087a सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम् 087c भीमसेनं महाबाहुं पार्षतः परवीरहा 088a ननर्द बहुधा राजन्हृष्टश्चासीत्परन्तपः 088c शङ्खं दध्मौ च समरे सिंहनादं ननाद च 089a स च पारावताश्वस्य रथे हेमपरिष्कृते 089c कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् 090a धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् 090c भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् 091a तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ 091c कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ 092a स तत्र गत्वा शैनेयो जवेन जयतां वरः 092c पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः 093a स कृत्वा कदनं तत्र प्रगृहीतशरासनः 093c आस्थितो रौद्रमात्मानं जघान समरे परान् 094a कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् 094c रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् 095a अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् 095c सन्ततार सुदुस्तारां भीमसेनो महाबलः 096a भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप 096c कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते 097a ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे 097c अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः 098a तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः 098c अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् 099a परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे 099c त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा 100a प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव 100c यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः 101a ततः शरसहस्रेण सन्निवार्य महारथान् 101c हयान्काञ्चनसन्नाहान्भीमस्य न्यहनच्छरैः 102a हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान् 102c शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति 103a अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव 103c त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत 104a ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम् 104c भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ 105a सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया 105c सारथिं कुरुवृद्धस्य पातयामास सायकैः 106a भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः 106c वातायमानैस्तैरश्वैरपनीतो रणाजिरात् 107a भीमसेनस्ततो राजन्नपनीते महाव्रते 107c प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः 108a स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत 108c नैनमभ्युत्सहन्केचित्तावका भरतर्षभ 109a धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः 109c पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् 110a सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ 110c धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् 111a अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः 111c प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः 112a दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् 112c शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः 113a स्वबाहुबलवीर्येण नागाश्वरथसङ्कुलः 113c महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया 114a एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दमः 114c रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् 115a ततः स्वरथमारुह्य पुनरेव महारथः 115c तावकानवधीत्क्रुद्धो भीमस्य बलमादधत्