001 धृतराष्ट्र उवाच 001a कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः 001c रणे समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय 002a दिष्टमेव परं मन्ये पौरुषादपि सञ्जय 002c यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् 003a भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् 003c स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा 004 सञ्जय उवाच 004a शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् 004c न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः 005a द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत् 005c सारथिं चास्य भल्लेन रथनीडादपातयत् 006a तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः 006c पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष 007a धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः 007c विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् 008a ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् 008c शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् 009a आददे च शरं घोरं पार्षतस्य वधं प्रति 009c शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम् 010a हाहाकारो महानासीत्सर्वसैन्यस्य भारत 010c तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे 011a तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् 011c यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः 012a तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः 012c चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह 013a तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह 013c धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् 014a ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् 014c द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी 015a तामापतन्तीं सहसा शक्तिं कनकभूषणाम् 015c त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव 016a शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् 016c ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर 017a शरवर्षं ततस्तं तु सन्निवार्य महायशाः 017c द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् 018a स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः 018c द्रोणाय प्रेषयामास गिरिसारमयीं बली 019a सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया 019c तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम् 020a लाघवाद्व्यंसयामास गदां हेमविभूषिताम् 020c व्यंसयित्वा गदां तां च प्रेषयामास पार्षते 021a भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान् 021c ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 022a अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः 022c द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः 023a रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ 023c वसन्तसमये राजन्पुष्पिताविव किंशुकौ 024a अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे 024c द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् 025a अथैनं छिन्नधन्वानं शरैः सन्नतपर्वभिः 025c अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम् 026a सारथिं चास्य भल्लेन रथनीडादपातयत् 026c अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 027a पातयामास समरे सिंहनादं ननाद च 027c ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् 028a स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः 028c गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् 029a तामस्य विशिखैस्तूर्णं पातयामास भारत 029c रथादनवरूढस्य तदद्भुतमिवाभवत् 030a ततः स विपुलं चर्म शतचन्द्रं च भानुमत् 030c खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली 031a अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया 031c आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् 032a तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् 032c लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत 033a यदेनं शरवर्षेण वारयामास पार्षतम् 033c न शशाक ततो गन्तुं बलवानपि संयुगे 034a तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम् 034c वारयाणं शरौघांश्च चर्मणा कृतहस्तवत् 035a ततो भीमो महाबाहुः सहसाभ्यपतद्बली 035c साहाय्यकारी समरे पार्षतस्य महात्मनः 036a स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः 036c पार्षतं च तदा तूर्णमन्यमारोपयद्रथम् 037a ततो दुर्योधनो राजा कलिङ्गं समचोदयत् 037c सैन्येन महता युक्तं भारद्वाजस्य रक्षणे 038a ततः सा महती सेना कलिङ्गानां जनेश्वर 038c भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् 039a पाञ्चाल्यमभिसन्त्यज्य द्रोणोऽपि रथिनां वरः 039c विराटद्रुपदौ वृद्धौ योधयामास सङ्गतौ 039e धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात् 040a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 040c कलिङ्गानां च समरे भीमस्य च महात्मनः 040e जगतः प्रक्षयकरं घोररूपं भयानकम्