001 धृतराष्ट्र उवाच 001a एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च 001c कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे 002 सञ्जय उवाच 002a समं व्यूढेष्वनीकेषु सन्नद्धा रुचिरध्वजाः 002c अपारमिव सन्दृश्य सागरप्रतिमं बलम् 003a तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव 003c अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः 004a ते मनः क्रूरमास्थाय समभित्यक्तजीविताः 004c पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः 005a ततो युद्धं समभवत्तुमुलं लोमहर्षणम् 005c तावकानां परेषां च व्यतिषक्तरथद्विपम् 006a मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः 006c सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च 007a तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः 007c अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः 008a सौभद्रे भीमसेने च शैनेये च महारथे 008c केकये च विराटे च धृष्टद्युम्ने च पार्षते 009a एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः 009c ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः 010a प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे 010c सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् 011a सादितध्वजनागाश्च हतप्रवरवाजिनः 011c विप्रयातरथानीकाः समपद्यन्त पाण्डवाः 012a अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् 012c वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः 013a एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम् 013c नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः 014a एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन 014c धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः 015a पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना 015c सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन 016a तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय 016c एष त्वा प्रापये वीर पितामहरथं प्रति 017a एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् 017c प्रापयामास भीष्माय रथं प्रति जनेश्वर 018a चञ्चद्बहुपताकेन बलाकावर्णवाजिना 018c समुच्छ्रितमहाभीमनदद्वानरकेतुना 018e महता मेघनादेन रथेनादित्यवर्चसा 019a विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः 019c आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः 020a तमापतन्तं वेगेन प्रभिन्नमिव वारणम् 020c त्रासयानं रणे शूरान्पातयन्तं च सायकैः 021a सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः 021c सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् 022a को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् 022c द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति 023a ततो भीष्मो महाराज कौरवाणां पितामहः 023c अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् 024a द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः 024c दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः 025a सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः 025c विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् 026a स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः 026c न विव्यथे महाबाहुर्भिद्यमान इवाचलः 027a स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः 027c द्रोणं षष्ट्या नरव्याघ्रो विकर्णञ्च त्रिभिः शरैः 028a आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः 028c प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ 029a तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः 029c द्रौपदेयाभिमन्युश्च परिवव्रुर्धनञ्जयम् 030a ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् 030c अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः 031a भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम् 031c अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः 032a तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत् 032c प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् 033a तेषां तु रथसिंहानां मध्यं प्राप्य धनञ्जयः 033c चिक्रीड धनुषा राजल्ँलक्ष्यं कृत्वा महारथान् 034a ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः 034c पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे 035a एष पाण्डुसुतस्तात कृष्णेन सहितो बली 035c यततां सर्वसैन्यानां मूलं नः परिकृन्तति 035e त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे 036a त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः 036c न युध्यति रणे पार्थं हितकामः सदा मम 037a स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः 037c एवमुक्तस्ततो राजन्पिता देवव्रतस्तव 037e धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति 038a उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः 038c सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत 039a द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः 039c परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष 040a तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् 040c स्थिता युद्धाय महते ततो युद्धमवर्तत 041a गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः 041c तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः 042a ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः 042c अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः 043a शरजालं ततस्तत्तु शरजालेन कौरव 043c वारयामास पार्थस्य भीष्मः शान्तनवस्तथा 044a उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ 044c निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ 045a भीष्मचापविमुक्तानि शरजालानि सङ्घशः 045c शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः 046a तथैवार्जुनमुक्तानि शरजालानि भागशः 046c गाङ्गेयशरनुन्नानि न्यपतन्त महीतले 047a अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः 047c भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः 048a अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ 048c रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ 049a ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः 049c वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे 050a भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः 050c विरराज रणे राजन्सपुष्प इव किंशुकः 051a ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् 051c गाङ्गेयसारथिं सङ्ख्ये निर्बिभेद त्रिभिः शरैः 052a यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति 052c नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे 053a मण्डलानि विचित्राणि गतप्रत्यागतानि च 053c अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् 054a अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ 054c राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः 055a उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः 055c तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ 056a तयोः शङ्खप्रणादेन रथनेमिस्वनेन च 056c दारिता सहसा भूमिश्चकम्प च ननाद च 057a न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ 057c बलिनौ समरे शूरावन्योन्यसदृशावुभौ 058a चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः 058c तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे 059a तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम् 059c विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे 060a न तयोर्विवरं कश्चिद्रणे पश्यति भारत 060c धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् 061a उभौ हि शरजालेन तावदृश्यौ बभूवतुः 061c प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे 062a तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः 062c अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् 063a न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ 063c सदेवासुरगन्धर्वैर्लोकैरपि कथञ्चन 064a आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् 064c नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन 065a नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता 065c सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे 066a तथैव पाण्डवं युद्धे देवैरपि दुरासदम् 066c न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् 067a इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः 067c गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशाम्पते 068a त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत 068c अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे 069a शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः 069c शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि 069e उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् 070a वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे 070c द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः