001 सञ्जय उवाच 001a क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव 001c व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा 002a आचार्यमुपसङ्गम्य कृपं शल्यं च मारिष 002c सौमदत्तिं विकर्णं च अश्वत्थामानमेव च 003a दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत 003c अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् 004a प्राहेदं वचनं काले हर्षयंस्तनयस्तव 004c नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः 005a एकैकशः समर्था हि यूयं सर्वे महारथाः 005c पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः 006a अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् 006c पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः 007a संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा 007c आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा 008a शत्रुञ्जयेन सहितास्तथा दुःशासनेन च 008c विकर्णेन च वीरेण तथा नन्दोपनन्दकैः 009a चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः 009c भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः 010a ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष 010c अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने 011a भीष्मः सैन्येन महता समन्तात्परिवारितः 011c ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव 012a तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् 012c कुन्तलैश्च दशार्णैश्च मागधैश्च विशाम्पते 013a विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि 013c सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् 014a गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः 014c शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् 015a ततो दुर्योधनो राजा सहितः सर्वसोदरैः 015c अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः 016a दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः 016c अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् 017a भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष 017c विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् 018a सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः 018c शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः 019a अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः 019c महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः 020a पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः 020c केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः 021a ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत 021c दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन् 022a तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः 022c सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् 023a ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः 023c आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् 024a ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ 024c प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ 025a पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः 025c पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः 026a अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः 026c नकुलः सहदेवश्च सुघोषमणिपुष्पकौ 027a काशिराजश्च शैब्यश्च शिखण्डी च महारथः 027c धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः 028a पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः 028c सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे 029a स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः 029c नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् 030a एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः 030c पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम्