001 सञ्जय उवाच 001a कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ 001c भीष्मे च युधि संरब्धे हृष्टे दुर्योधने तथा 002a धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् 002c भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः 003a शुचा परमया युक्तश्चिन्तयानः पराजयम् 003c वार्ष्णेयमब्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् 004a कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् 004c शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् 005a कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् 005c लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् 006a एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् 006c दृष्ट्वा विप्रद्रुतं सैन्यं मदीयं मार्गणाहतम् 007a शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे 007c वरुणः पाशभृच्चापि कुबेरो वा गदाधरः 008a न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः 008c सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः 009a आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव 009c वनं यास्यामि गोविन्द श्रेयो मे तत्र जीवितुम् 010a न त्विमान्पृथिवीपालान्दातुं भीष्माय मृत्यवे 010c क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् 011a यथानलं प्रज्वलितं पतङ्गाः समभिद्रुताः 011c विनाशायैव गच्छन्ति तथा मे सैनिको जनः 012a क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी 012c भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः 013a मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् 013c जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् 014a जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् 014c न घातयिष्यामि रणे मित्राणीमानि केशव 015a रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः 015c घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् 016a किं नु कृत्वा कृतं मे स्याद्ब्रूहि माधव माचिरम् 016c मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् 017a एको भीमः परं शक्त्या युध्यत्येष महाभुजः 017c केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् 018a गदया वीरघातिन्या यथोत्साहं महामनाः 018c करोत्यसुकरं कर्म गजाश्वरथपत्तिषु 019a नालमेष क्षयं कर्तुं परसैन्यस्य मारिष 019c आर्जवेनैव युद्धेन वीर वर्षशतैरपि 020a एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते 020c निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना 021a दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः 021c धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः 022a कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः 022c क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः 023a स त्वं पश्य महेष्वासं योगीष्वर महारथम् 023c यो भीष्मं शमयेत्सङ्ख्ये दावाग्निं जलदो यथा 024a तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः 024c स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति सबान्धवाः 025a एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः 025c चिरमन्तर्मना भूत्वा शोकोपहतचेतनः 026a शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् 026c अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् 027a मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि 027c यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः 028a अहं च प्रियकृद्राजन्सात्यकिश्च महारथः 028c विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः 029a तथैव सबलाः सर्वे राजानो राजसत्तम 029c त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशाम्पते 030a एष ते पार्षतो नित्यं हितकामः प्रिये रतः 030c सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः 030e शिखण्डी च महाबाहो भीष्मस्य निधनं किल 031a एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् 031c अब्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः 032a धृष्टद्युम्न निबोधेदं यत्त्वा वक्ष्यामि मारिष 032c नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् 033a भवान्सेनापतिर्मह्यं वासुदेवेन सम्मतः 033c कार्त्तिकेयो यथा नित्यं देवानामभवत्पुरा 033e तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ 034a स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् 034c अहं च त्वानुयास्यामि भीमः कृष्णश्च मारिष 035a माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः 035c ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ 036a तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत 036c अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा 037a रणे भीष्मं तथा द्रोणं कृपं शल्यं जयद्रथम् 037c सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव 038a अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः 038c समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने 039a तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् 039c व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः 040a यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् 040c तं यथावत्प्रतिव्यूह परानीकविनाशनम् 040e अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह 041a तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव 041c प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् 042a आदित्यपथगः केतुस्तस्याद्भुतमनोरमः 042c शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा 043a इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः 043c आकाशग इवाकाशे गन्धर्वनगरोपमः 043e नृत्यमान इवाभाति रथचर्यासु मारिष 044a तेन रत्नवता पार्थः स च गाण्डीवधन्वना 044c बभूव परमोपेतः स्वयम्भूरिव भानुना 045a शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः 045c कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर 046a दाशार्णकाः प्रयागाश्च दाशेरकगणैः सह 046c अनूपगाः किराताश्च ग्रीवायां भरतर्षभ 047a पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा 047c निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः 048a पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः 048c द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः 049a पिशाचा दरदाश्चैव पुण्ड्राः कुण्डीविषैः सह 049c मडका लडकाश्चैव तङ्गणाः परतङ्गणाः 050a बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत 050c एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः 051a अग्निवेष्या जगत्तुण्डाः पलदाशाश्च भारत 051c शबरास्तुम्बुपाश्चैव वत्साश्च सह नाकुलैः 051e नकुलः सहदेवश्च वामं पार्श्वं समाश्रिताः 052a रथानामयुतं पक्षौ शिरश्च नियुतं तथा 052c पृष्ठमर्बुदमेवासीत्सहस्राणि च विंशतिः 052e ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः 053a पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः 053c जग्मुः परिवृता राजंश्चलन्त इव पर्वताः 054a जघनं पालयामास विराटः सह केकयैः 054c काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः 055a एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः 055c सूर्योदयनमिच्छन्तः स्थिता युद्धाय दंशिताः 056a तेषामादित्यवर्णानि विमलानि महान्ति च 056c श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च