सञ्जय उवाच 001
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे 001a
वर्तमाने महारौद्रे महावीरवरक्षये 001c
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः 002a
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः 002c
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ 003a
पाण्डवानामनीकानि विजगाहे महारथः 003c
चेदिकाशिकरूषेषु पाञ्चालेषु च भारत 004a
भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत 004c
शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् 005a
निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः 005c
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ 006a
केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः 006c
अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः 007a
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति 007c
जाम्बूनदविचित्रेण कर्णिकारेण केतुना 008a
अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् 008c
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा 009a
भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह 009c
कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः 010a
विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् 010c
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च 011a
ध्वजमेकेन विव्याध जाम्बूनदविभूषितम् 011c
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना 012a
जहार सारथेः कायाच्छिरः सन्नतपर्वणा 012c
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् 013a
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः 013c
जघान परमक्रुद्धो नृत्यन्निव महारथः 014a
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि 014c
लब्धलक्ष्यतया कार्ष्णेः सर्वे भीष्ममुखा रथाः 015a
सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम् 015c
तस्य लाघवमार्गस्थमलातसदृशप्रभम् 016a
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् 016c
तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः 017a
विव्याध समरे तूर्णमार्जुनिं परवीरहा 017c
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः 018a
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः 018c
तथैव कृतवर्मा च कृपः शल्यश्च मारिष 019a
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् 019c
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः 020a
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति 020c
ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः 021a
ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् 021c
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत 022a
यतमानस्य समरे भीष्ममर्दयतः शरैः 022c
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् 023a
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् 023c
ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः 024a
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः 024c
स राजतो महास्कन्धस्तालो हेमविभूषितः 025a
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत 025c
ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ 026a
दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् 026c
अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च 027a
प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः 027c
ततः शतसहस्रेण सौभद्रं प्रपितामहः 028a
अवाकिरदमेयात्मा शराणां नतपर्वणाम् 028c
ततो दश महेष्वासाः पाण्डवानां महारथाः 029a
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः 029c
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः 030a
भीमश्च केकयाश्चैव सात्यकिश्च विशां पते 030c
जवेनापततां तेषां भीष्मः शान्तनवो रणे 031a
पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः 031c
पूर्णायतविसृष्टेन क्षुरेण निशितेन च 032a
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा 032c
जाम्बूनदमयः केतुः केसरी नरसत्तम 033a
पपात भीमसेनस्य भीष्मेण मथितो रथात् 033c
भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे 034a
कृपमेकेन विव्याध कृतवर्माणमष्टभिः 034c
प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना 035a
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः 035c
तस्य वारणराजस्य जवेनापततो रथी 036a
शल्यो निवारयामास वेगमप्रतिमं रणे 036c
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः 037a
पदा युगमधिष्ठाय जघान चतुरो हयान् 037c
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् 038a
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् 038c
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः 039a
स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः 039c
समादाय च शल्योऽसिमवप्लुत्य रथोत्तमात् 040a
वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् 040c
भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः 041a
भीममार्तस्वरं कृत्वा पपात च ममार च 041c
एतदीदृशकं कृत्वा मद्रराजो महारथः 042a
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः 042c
उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् 043a
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् 043c
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव 043e
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् 044a
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली 044c
महता रथवंशेन समन्तात्परिवारितः 045a
सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति 045c
तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् 046a
तावकानां रथाः सप्त समन्तात्पर्यवारयन् 046c
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् 046e
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा 047a
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे 047c
तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् 048a
सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः 048c
तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः 049a
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत 049c
हाहाकारो महानासीद्योधानां युधि युध्यताम् 050a
तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः 050c
अथ शल्यो गदापाणिरवतीर्य महारथात् 051a
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ 051c
स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः 052a
बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत 052c
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः 053a
यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् 053c
पाञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् 054a
भीष्मः प्रहरतां श्रेष्ठः पातयामास मार्गणैः 054c
उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् 055a
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् 055c
प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् 055e
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये 056a
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह 056c
अतिष्ठत रणे भीष्मो विधूम इव पावकः 056e
मध्यन्दिने यथादित्यं तपन्तमिव तेजसा 057a
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् 057c
वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः 058a
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव 058c
हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते 059a
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत 059c
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः 060a
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव 060c
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः 061a
जघान पाण्डवरथानादिश्यादिश्य भारत 061c
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः 062a
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन 062c
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे 063a
अवहारमकुर्वन्त सैन्यानां भरतर्षभ 063c