सञ्जय उवाच 001
राजञ्शतसहस्राणि तत्र तत्र तदा तदा 001a
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत 001c
न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् 002a
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः 002c
मातुलं न च स्वस्रीयो न सखायं सखा तथा 003a
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह 003c
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः 004a
अभज्यन्त युगैरेव युगानि भरतर्षभ 004c
रथेषाश्च रथेषाभिः कूबरा रथकूबरैः 005a
संहताः संहतैः केचित्परस्परजिघांसवः 005c
न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः 006a
प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः 006c
बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् 007a
सतोमरपताकैश्च वारणाः परवारणैः 007c
अभिसृत्य महाराज वेगवद्भिर्महागजैः 008a
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः 008c
अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः 009a
सुप्रभिन्नाः प्रभिन्नानां सम्मुखाभिमुखा ययुः 009c
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः 010a
क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः 010c
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः 011a
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः 011c
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः 012a
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् 012c
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः 013a
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः 013c
गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः 014a
आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः 014c
प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः 015a
व्यदृश्यन्त महाराज परस्परजिघांसवः 015c
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः 016a
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् 016c
अवक्षिप्तावधूतानामसीनां वीरबाहुभिः 017a
सञ्जज्ञे तुमुलः शब्दः पततां परमर्मसु 017c
गदामुसलरुग्णानां भिन्नानां च वरासिभिः 018a
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः 018c
तत्र तत्र नरौघाणां क्रोशतामितरेतरम् 019a
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत 019c
हयैरपि हयारोहाश्चामरापीडधारिभिः 020a
हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः 020c
तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः 021a
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः 021c
अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् 022a
शिरांस्याददिरे वीरा रथिनामश्वसादिनः 022c
बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः 023a
रथी जघान सम्प्राप्य बाणगोचरमागतान् 023c
नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः 024a
पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः 024c
पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः 025a
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः 025c
साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः 026a
सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति 026c
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः 027a
रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः 027c
पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः 028a
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा 028c
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः 029a
विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः 029c
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः 030a
नराश्वकायान्निर्भिद्य लौहानि कवचानि च 030c
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः 031a
महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते 031c
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि 032a
विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे 032c
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् 033a
विदर्शयन्तः सम्पेतुः खड्गचर्मपरश्वधैः 033c
शक्तिभिर्दारिताः केचित्सञ्छिन्नाश्च परश्वधैः 034a
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरङ्गमैः 034c
रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः 035a
विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् 035c
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः 036a
मातुलान्भागिनेयांश्च परानपि च संयुगे 036c
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत 037a
बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः 037c
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः 037e
तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते 038a
भूमौ निपतिताः सङ्ख्ये जलमेव ययाचिरे 038c
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत 039a
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सङ्गतान् 039c
अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् 040a
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष 040c
तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् 040e
निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् 041a
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् 041c
अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः 042a
निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः 042c
अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे 043a
प्रार्थयाना निपतिताः सङ्क्षुण्णा वरवारणैः 043c
अशोभन्त महाराज पुष्पिता इव किंशुकाः 043e
सम्बभूवुरनीकेषु बहवो भैरवस्वनाः 044a
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये 044c
अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे 045a
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः 045c
सखायं च सखा राजन्सम्बन्धी बान्धवं तथा 046a
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह 046c
वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे 047a
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत 047c
केतुना पञ्चतारेण तालेन भरतर्षभ 048a
राजतेन महाबाहुरुच्छ्रितेन महारथे 048c
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा 048e