सञ्जय उवाच 001
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते 001a
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् 001c
कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम् 002a
सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् 002c
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह 003a
जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् 003c
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ 004a
पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः 004c
तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः 005a
घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् 005c
तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे 006a
बभूव रथनिर्घोषः पर्जन्यनिनदोपमः 006c
ते मनः क्रूरमाधाय समभित्यक्तजीविताः 007a
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः 007c
स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम् 008a
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे 008c
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् 009a
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि 009c
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ 010a
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली 010c
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि 010e
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् 011a
तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् 011c
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् 012a
आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् 012c
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ 013a
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ 013c
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् 014a
ततः कोसलको राजा सौभद्रस्य विशां पते 014c
ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् 014e
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ 015a
बृहद्बलं महाराज विव्याध नवभिः शरैः 015c
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः 016a
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् 016c
अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः 016e
मानिनं समरे दृप्तं कृतवैरं महारथम् 017a
भीमसेनस्तव सुतं दुर्योधनमयोधयत् 017c
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ 018a
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे 018c
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ 019a
विस्मयः सर्वभूतानां समपद्यत भारत 019c
दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् 020a
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः 020c
तस्य माद्रीसुतः केतुं सशरं च शरासनम् 021a
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत 021c
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् 021e
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे 022a
युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् 022c
दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् 023a
विव्याध शरवर्षेण यतमानं महाहवे 023c
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे 024a
शरेण भृशतीक्ष्णेन पातयामास सारथिम् 024c
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ 025a
त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ 025c
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् 026a
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष 026c
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः 027a
अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् 027c
ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः 028a
छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 028c
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत 029a
तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् 029c
त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् 029e
शरं चैव महाघोरं कालदण्डमिवापरम् 030a
प्रेषयामास समरे सोऽस्य काये न्यमज्जत 030c
अथान्यद्धनुरादाय सायकांश्च चतुर्दश 031a
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे 031c
तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् 031e
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि 032a
प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् 032c
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् 033a
सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् 033c
तयोः समभवद्युद्धं घोररूपं विशां पते 034a
दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव 034c
बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते 035a
अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः 035c
बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् 036a
शरैर्बहुभिरानर्छत्सिंहनादमथानदत् 036c
चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः 037a
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् 037c
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः 038a
समीयतुः सुसङ्क्रुद्धावङ्गारकबुधाविव 038c
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः 039a
अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे 039c
घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महाबलम् 040a
नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत 040c
अलम्बुसस्तु समरे भैमसेनिं महाबलम् 041a
बहुधा वारयामास शरैः सन्नतपर्वभिः 041c
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ 042a
यथा देवासुरे युद्धे बलशक्रौ महाबलौ 042c
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली 043a
अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् 043c
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् 044a
शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् 044c
सायकेन सुपीतेन तीक्ष्णेन निशितेन च 045a
तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे 045c
भगदत्तं रणे शूरं विराटो वाहिनीपतिः 046a
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत 046c
विराटो भगदत्तेन शरवर्षेण ताडितः 047a
अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् 047c
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् 048a
छादयामास समरे मेघः सूर्यमिवोदितम् 048c
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ 049a
तं कृपः शरवर्षेण छादयामास भारत 049c
गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् 050a
तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै 050c
विरथावसियुद्धाय समीयतुरमर्षणौ 051a
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् 051c
द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् 052a
अभ्युद्ययौ सम्प्रहृष्टो हृष्टरूपं परन्तप 052c
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः 053a
ताडयामास समरे स च तं प्रत्यविध्यत 053c
तयोः समभवद्युद्धं घोररूपं सुदारुणम् 054a
ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव 054c
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् 055a
अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत 055c
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः 056a
सुतसोमो विकर्णं च तदद्भुतमिवाभवत् 056c
सुशर्माणं नरव्याघ्रं चेकितानो महारथः 057a
अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी 057c
सुशर्मा तु महाराज चेकितानं महारथम् 058a
महता शरवर्षेण वारयामास संयुगे 058c
चेकितानोऽपि संरब्धः सुशर्माणं महाहवे 059a
प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् 059c
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी 060a
अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् 060c
यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः 061a
व्यदारयत सङ्ग्रामे मघवानिव दानवम् 061c
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे 062a
व्यदारयन्महाप्राज्ञः शरैः सन्नतपर्वभिः 062c
सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् 063a
श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे 063c
सुदक्षिणस्तु समरे साहदेविं महारथम् 064a
विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् 064c
श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् 065a
शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः 065c
इरावानथ सङ्क्रुद्धः श्रुतायुषममर्षणम् 066a
प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः 066c
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः 067a
ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् 067c
श्रुतायुस्त्वथ सङ्क्रुद्धः फाल्गुनेः समरे हयान् 068a
निजघान गदाग्रेण ततो युद्धमवर्तत 068c
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् 069a
ससेनं ससुतं वीरं संससज्जतुराहवे 069c
तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् 070a
यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह 070c
अनुविन्दस्तु गदया कुन्तिभोजमताडयत् 071a
कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् 071c
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः 072a
स च तं प्रतिविव्याध तदद्भुतमिवाभवत् 072c
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष 073a
ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे 073c
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् 074a
उत्तरं योधयामास विव्याध निशितैः शरैः 074c
उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः 074e
चेदिराट्समरे राजन्नुलूकं समभिद्रवत् 075a
उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः 075c
तयोर्युद्धं समभवद्घोररूपं विशां पते 076a
दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ 076c
एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् 077a
पदातीनां च समरे तव तेषां च सङ्कुलम् 077c
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् 078a
तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन 078c
गजो गजेन समरे रथी च रथिनं ययौ 079a
अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् 079c
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत 080a
शूराणां समरे तत्र समासाद्य परस्परम् 080c
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः 081a
प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् 081c
ततो दन्तिसहस्राणि रथानां चापि मारिष 082a
अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः 082c
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः 083a
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः 083c