सञ्जय उवाच 001
ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम् 001a
पुनरेव महानादं व्यसृजन्त महारथाः 001c
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः 002a
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसम्भवान् 002c
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः 003a
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् 003c
अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर 004a
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया 004c
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् 005a
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् 005c
ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते 006a
ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप 006c
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् 007a
अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः 007c
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः 008a
वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् 008c
तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जयः 009a
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् 009c
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह 010a
यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः 010c
अर्जुन उवाच 011
किं ते व्यवसितं राजन्यदस्मानपहाय वै 011a
पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् 011c
भीमसेन उवाच 012
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः 012a
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव 012c
नकुल उवाच 013
एवङ्गते त्वयि ज्येष्ठे मम भ्रातरि भारत 013a
भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु 013c
सहदेव उवाच 014
अस्मिन्रणसमूहे वै वर्तमाने महाभये 014a
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप 014c
सञ्जय उवाच 015
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन 015a
नोवाच वाग्यतः किञ्चिद्गच्छत्येव युधिष्ठिरः 015c
तानुवाच महाप्राज्ञो वासुदेवो महामनाः 016a
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव 016c
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च 017a
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः 017c
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः 018a
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः 018c
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः 019a
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम 019c
एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति 020a
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् 020c
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः 021a
मिथः सङ्कथयां चक्रुर्नेशोऽस्ति कुलपांसनः 021c
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् 022a
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः 022c
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे 023a
नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः 023c
न नूनं क्षत्रियकुले जातः सम्प्रथिते भुवि 024a
यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे 024c
ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् 025a
हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् 025c
व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते 026a
युधिष्ठिरं ससोदर्यं सहितं केशवेन ह 026c
ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् 027a
निःशब्दमभवत्तूर्णं पुनरेव विशां पते 027c
किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति 028a
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति 028c
विवक्षितं किमस्येति संशयः सुमहानभूत् 029a
उभयोः सेनयो राजन्युधिष्ठिरकृते तदा 029c
स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् 030a
भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः 030c
तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः 031a
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् 031c
युधिष्ठिर उवाच 032
आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह 032a
अनुजानीहि मां तात आशिषश्च प्रयोजय 032c
भीष्म उवाच 033
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते 033a
शपेयं त्वां महाराज पराभावाय भारत 033c
प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव 034a
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे 034c
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि 035a
एवं गते महाराज न तवास्ति पराजयः 035c
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् 036a
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः 036c
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन 037a
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि 037c
युधिष्ठिर उवाच 038
मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः 038a
युध्यस्व कौरवस्यार्थे ममैष सततं वरः 038c
भीष्म उवाच 039
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन 039a
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् 039c
युधिष्ठिर उवाच 040
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् 040a
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि 040c
भीष्म उवाच 041
न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे 041a
विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः 041c
युधिष्ठिर उवाच 042
हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते 042a
जयोपायं ब्रवीहि त्वमात्मनः समरे परैः 042c
भीष्म उवाच 043
न शत्रुं तात पश्यामि समरे यो जयेत माम् 043a
न तावन्मृत्युकालो मे पुनरागमनं कुरु 043c
सञ्जय उवाच 044
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन 044a
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च 044c
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति 045a
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह 045c
स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् 046a
उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः 046c
आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः 047a
जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज 047c
द्रोण उवाच 048
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 048a
शपेयं त्वां महाराज पराभावाय सर्वशः 048c
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ 049a
अनुजानामि युध्यस्व विजयं समवाप्नुहि 049c
करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् 050a
एवं गते महाराज युद्धादन्यत्किमिच्छसि 050c
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् 051a
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः 051c
अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि 052a
योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया 052c
युधिष्ठिर उवाच 053
जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् 053a
युध्यस्व कौरवस्यार्थे वर एष वृतो मया 053c
द्रोण उवाच 054
ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव 054a
अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि 054c
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः 055a
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते 055c
युधिष्ठिर उवाच 056
पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् 056a
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् 056c
द्रोण उवाच 057
न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे 057a
ममाशु निधने राजन्यतस्व सह सोदरैः 057c
युधिष्ठिर उवाच 058
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः 058a
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते 058c
द्रोण उवाच 059
न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् 059a
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् 059c
ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् 060a
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते 060c
शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् 061a
श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते 061c
सञ्जय उवाच 062
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः 062a
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति 062c
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् 063a
उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः 063c
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः 064a
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ 064c
कृप उवाच 065
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 065a
शपेयं त्वां महाराज पराभावाय सर्वशः 065c
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् 066a
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः 066c
तेषामर्थे महाराज योद्धव्यमिति मे मतिः 067a
अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि 067c
युधिष्ठिर उवाच 068
हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः 068a
सञ्जय उवाच 069
इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः 069a
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् 069c
अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि 069e
प्रीतस्त्वभिगमेनाहं जयं तव नराधिप 070a
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते 070c
एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा 071a
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् 071c
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् 072a
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः 072c
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः 073a
जयेयं च महाराज अनुज्ञातस्त्वया रिपून् 073c
शल्य उवाच 074
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः 074a
शपेयं त्वां महाराज पराभावाय वै रणे 074c
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते 075a
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि 075c
ब्रूहि चैव परं वीर केनार्थः किं ददामि ते 076a
एवं गते महाराज युद्धादन्यत्किमिच्छसि 076c
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् 077a
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः 077c
करिष्यामि हि ते कामं भागिनेय यथेप्सितम् 078a
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि 078c
युधिष्ठिर उवाच 079
मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् 079a
कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् 079c
शल्य उवाच 080
ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम 080a
कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः 080c
युधिष्ठिर उवाच 081
स एव मे वरः सत्य उद्योगे यस्त्वया कृतः 081a
सूतपुत्रस्य सङ्ग्रामे कार्यस्तेजोवधस्त्वया 081c
शल्य उवाच 082
सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः 082a
गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव 082c
सञ्जय उवाच 083
अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् 083a
निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः 083c
वासुदेवस्तु राधेयमाहवेऽभिजगाम वै 084a
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः 084c
श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि 085a
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते 085c
हते तु भीष्मे राधेय पुनरेष्यसि संयुगे 086a
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् 086c
कर्ण उवाच 087
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव 087a
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् 087c
सञ्जय उवाच 088
तच्छ्रुत्वा वचनं कृष्णः सन्न्यवर्तत भारत 088a
युधिष्ठिरपुरोगैश्च पाण्डवैः सह सङ्गतः 088c
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः 089a
योऽस्मान्वृणोति तदहं वरये साह्यकारणात् 089c
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् 090a
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् 090c
अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् 091a
युष्मदर्थे महाराज यदि मां वृणुषेऽनघ 091c
युधिष्ठिर उवाच 092
एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् 092a
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः 092c
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् 093a
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते 093c
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते 094a
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः 094c
सञ्जय उवाच 095
ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव 095a
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् 095c
ततो युधिष्ठिरो राजा सम्प्रहृष्टः सहानुजैः 096a
जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् 096c
प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः 097a
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः 097c
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् 098a
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः 098c
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः 099a
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा 099c
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् 100a
दृष्ट्वा महीक्षितस्तत्र पूजयाञ्चक्रिरे भृशम् 100c
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् 101a
दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः 101c
साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः 102a
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः 102c
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा 103a
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः 103c
ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् 104a
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः 104c