अर्जुन उवाच 001
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् 001a
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन 001c
श्रीभगवानुवाच 002
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः 002a
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः 002c
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः 003a
यज्ञदानतपःकर्म न त्याज्यमिति चापरे 003c
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम 004a
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः 004c
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् 005a
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् 005c
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च 006a
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् 006c
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते 007a
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः 007c
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् 008a
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् 008c
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन 009a
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः 009c
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते 010a
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः 010c
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः 011a
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते 011c
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् 012a
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् 012c
पञ्चैतानि महाबाहो कारणानि निबोध मे 013a
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् 013c
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् 014a
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् 014c
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः 015a
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः 015c
तत्रैवं सति कर्तारमात्मानं केवलं तु यः 016a
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः 016c
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते 017a
हत्वापि स इमाल्ँलोकान्न हन्ति न निबध्यते 017c
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना 018a
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः 018c
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः 019a
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि 019c
सर्वभूतेषु येनैकं भावमव्ययमीक्षते 020a
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् 020c
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् 021a
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् 021c
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् 022a
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् 022c
नियतं सङ्गरहितमरागद्वेषतः कृतम् 023a
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते 023c
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः 024a
क्रियते बहुलायासं तद्राजसमुदाहृतम् 024c
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् 025a
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते 025c
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः 026a
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते 026c
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः 027a
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः 027c
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः 028a
विषादी दीर्घसूत्री च कर्ता तामस उच्यते 028c
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु 029a
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय 029c
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये 030a
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी 030c
यया धर्ममधर्मं च कार्यं चाकार्यमेव च 031a
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी 031c
अधर्मं धर्ममिति या मन्यते तमसावृता 032a
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी 032c
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः 033a
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी 033c
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन 034a
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी 034c
यया स्वप्नं भयं शोकं विषादं मदमेव च 035a
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी 035c
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ 036a
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति 036c
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् 037a
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् 037c
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् 038a
परिणामे विषमिव तत्सुखं राजसं स्मृतम् 038c
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः 039a
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् 039c
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः 040a
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः 040c
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप 041a
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः 041c
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च 042a
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् 042c
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् 043a
दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् 043c
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् 044a
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् 044c
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः 045a
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु 045c
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् 046a
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः 046c
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् 047a
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् 047c
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् 048a
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः 048c
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः 049a
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति 049c
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे 050a
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा 050c
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च 051a
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च 051c
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः 052a
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः 052c
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् 053a
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते 053c
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति 054a
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् 054c
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः 055a
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् 055c
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः 056a
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् 056c
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः 057a
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव 057c
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि 058a
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि 058c
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे 059a
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति 059c
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा 060a
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् 060c
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति 061a
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया 061c
तमेव शरणं गच्छ सर्वभावेन भारत 062a
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् 062c
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया 063a
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु 063c
सर्वगुह्यतमं भूयः शृणु मे परमं वचः 064a
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् 064c
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु 065a
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे 065c
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज 066a
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः 066c
इदं ते नातपस्काय नाभक्ताय कदाचन 067a
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति 067c
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति 068a
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः 068c
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः 069a
भविता न च मे तस्मादन्यः प्रियतरो भुवि 069c
अध्येष्यते च य इमं धर्म्यं संवादमावयोः 070a
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः 070c
श्रद्धावाननसूयश्च शृणुयादपि यो नरः 071a
सोऽपि मुक्तः शुभाल्ँलोकान्प्राप्नुयात्पुण्यकर्मणाम् 071c
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा 072a
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय 072c
अर्जुन उवाच 073
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत 073a
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव 073c
सञ्जय उवाच 074
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः 074a
संवादमिममश्रौषमद्भुतं रोमहर्षणम् 074c
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् 075a
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् 075c
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् 076a
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः 076c
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः 077a
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः 077c
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः 078a
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम 078c