अर्जुन उवाच 001
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः 001a
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः 001c
श्रीभगवानुवाच 002
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा 002a
सात्त्विकी राजसी चैव तामसी चेति तां शृणु 002c
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत 003a
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः 003c
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः 004a
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः 004c
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः 005a
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः 005c
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः 006a
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् 006c
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः 007a
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु 007c
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः 008a
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः 008c
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः 009a
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः 009c
यातयामं गतरसं पूति पर्युषितं च यत् 010a
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् 010c
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते 011a
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः 011c
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् 012a
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् 012c
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् 013a
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते 013c
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् 014a
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते 014c
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् 015a
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते 015c
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः 016a
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते 016c
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः 017a
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते 017c
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् 018a
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् 018c
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः 019a
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् 019c
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे 020a
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् 020c
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः 021a
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् 021c
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते 022a
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् 022c
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः 023a
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा 023c
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः 024a
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् 024c
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः 025a
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः 025c
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते 026a
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते 026c
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते 027a
कर्म चैव तदर्थीयं सदित्येवाभिधीयते 027c
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् 028a
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह 028c