श्रीभगवानुवाच 001
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः 001a
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् 001c
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् 002a
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् 002c
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता 003a
भवन्ति सम्पदं दैवीमभिजातस्य भारत 003c
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च 004a
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् 004c
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता 005a
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव 005c
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च 006a
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु 006c
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः 007a
न शौचं नापि चाचारो न सत्यं तेषु विद्यते 007c
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् 008a
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् 008c
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः 009a
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः 009c
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः 010a
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः 010c
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः 011a
कामोपभोगपरमा एतावदिति निश्चिताः 011c
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः 012a
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् 012c
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् 013a
इदमस्तीदमपि मे भविष्यति पुनर्धनम् 013c
असौ मया हतः शत्रुर्हनिष्ये चापरानपि 014a
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी 014c
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया 015a
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः 015c
अनेकचित्तविभ्रान्ता मोहजालसमावृताः 016a
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ 016c
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः 017a
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् 017c
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः 018a
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः 018c
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् 019a
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु 019c
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि 020a
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् 020c
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः 021a
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् 021c
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः 022a
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् 022c
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः 023a
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् 023c
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ 024a
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि 024c