श्रीभगवानुवाच 001
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् 001a
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् 001c
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः 002a
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके 002c
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा 003a
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा 003c
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः 004a
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी 004c
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः 005a
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् 005c
न तद्भासयते सूर्यो न शशाङ्को न पावकः 006a
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम 006c
ममैवांशो जीवलोके जीवभूतः सनातनः 007a
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति 007c
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः 008a
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् 008c
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च 009a
अधिष्ठाय मनश्चायं विषयानुपसेवते 009c
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् 010a
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः 010c
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् 011a
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः 011c
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् 012a
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् 012c
गामाविश्य च भूतानि धारयाम्यहमोजसा 013a
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः 013c
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः 014a
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् 014c
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च 015a
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् 015c
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च 016a
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते 016c
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः 017a
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः 017c
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः 018a
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः 018c
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् 019a
स सर्वविद्भजति मां सर्वभावेन भारत 019c
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ 020a
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत 020c