श्रीभगवानुवाच 001
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् 001a
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः 001c
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः 002a
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च 002c
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् 003a
सम्भवः सर्वभूतानां ततो भवति भारत 003c
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः 004a
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता 004c
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः 005a
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् 005c
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् 006a
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ 006c
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् 007a
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् 007c
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् 008a
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत 008c
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत 009a
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत 009c
रजस्तमश्चाभिभूय सत्त्वं भवति भारत 010a
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा 010c
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते 011a
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत 011c
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा 012a
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ 012c
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च 013a
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन 013c
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् 014a
तदोत्तमविदां लोकानमलान्प्रतिपद्यते 014c
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते 015a
तथा प्रलीनस्तमसि मूढयोनिषु जायते 015c
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् 016a
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् 016c
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च 017a
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च 017c
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः 018a
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः 018c
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति 019a
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति 019c
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् 020a
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते 020c
अर्जुन उवाच 021
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो 021a
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते 021c
श्रीभगवानुवाच 022
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव 022a
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति 022c
उदासीनवदासीनो गुणैर्यो न विचाल्यते 023a
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते 023c
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः 024a
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः 024c
मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः 025a
सर्वारम्भपरित्यागी गुणातीतः स उच्यते 025c
मां च योऽव्यभिचारेण भक्तियोगेन सेवते 026a
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते 026c
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च 027a
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च 027c