श्रीभगवानुवाच 001
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते 001a
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः 001c
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत 002a
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम 002c
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् 003a
स च यो यत्प्रभावश्च तत्समासेन मे शृणु 003c
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् 004a
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः 004c
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च 005a
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः 005c
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः 006a
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् 006c
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् 007a
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः 007c
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च 008a
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् 008c
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु 009a
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु 009c
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी 010a
विविक्तदेशसेवित्वमरतिर्जनसंसदि 010c
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् 011a
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा 011c
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते 012a
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते 012c
सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् 013a
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति 013c
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् 014a
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च 014c
बहिरन्तश्च भूतानामचरं चरमेव च 015a
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् 015c
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् 016a
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च 016c
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते 017a
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् 017c
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः 018a
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते 018c
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि 019a
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् 019c
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते 020a
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते 020c
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् 021a
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु 021c
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः 022a
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः 022c
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह 023a
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते 023c
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना 024a
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे 024c
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते 025a
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः 025c
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् 026a
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ 026c
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् 027a
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति 027c
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् 028a
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् 028c
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः 029a
यः पश्यति तथात्मानमकर्तारं स पश्यति 029c
यदा भूतपृथग्भावमेकस्थमनुपश्यति 030a
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा 030c
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः 031a
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते 031c
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते 032a
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते 032c
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः 033a
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत 033c
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा 034a
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् 034c