अर्जुन उवाच 001
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते 001a
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः 001c
श्रीभगवानुवाच 002
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते 002a
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः 002c
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते 003a
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् 003c
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः 004a
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः 004c
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् 005a
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते 005c
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः 006a
अनन्येनैव योगेन मां ध्यायन्त उपासते 006c
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् 007a
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् 007c
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय 008a
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः 008c
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् 009a
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय 009c
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव 010a
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि 010c
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः 011a
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् 011c
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते 012a
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् 012c
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च 013a
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी 013c
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः 014a
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः 014c
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः 015a
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः 015c
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः 016a
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः 016c
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति 017a
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः 017c
समः शत्रौ च मित्रे च तथा मानावमानयोः 018a
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः 018c
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् 019a
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः 019c
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते 020a
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः 020c