अर्जुन उवाच 001
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम 001a
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते 001c
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन 002a
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः 002c
श्रीभगवानुवाच 003
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते 003a
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः 003c
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् 004a
अधियज्ञोऽहमेवात्र देहे देहभृतां वर 004c
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् 005a
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः 005c
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् 006a
तं तमेवैति कौन्तेय सदा तद्भावभावितः 006c
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च 007a
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः 007c
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना 008a
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् 008c
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः 009a
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् 009c
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव 010a
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् 010c
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः 011a
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये 011c
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च 012a
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् 012c
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् 013a
यः प्रयाति त्यजन्देहं स याति परमां गतिम् 013c
अनन्यचेताः सततं यो मां स्मरति नित्यशः 014a
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः 014c
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् 015a
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः 015c
आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन 016a
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते 016c
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः 017a
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः 017c
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे 018a
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके 018c
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते 019a
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे 019c
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः 020a
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति 020c
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् 021a
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम 021c
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया 022a
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् 022c
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः 023a
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ 023c
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् 024a
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः 024c
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् 025a
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते 025c
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते 026a
एकया यात्यनावृत्तिमन्ययावर्तते पुनः 026c
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन 027a
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन 027c
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् 028a
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्सस 028c