श्रीभगवानुवाच 001
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः 001a
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु 001c
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः 002a
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते 002c
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये 003a
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः 003c
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च 004a
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा 004c
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् 005a
जीवभूतां महाबाहो ययेदं धार्यते जगत् 005c
एतद्योनीनि भूतानि सर्वाणीत्युपधारय 006a
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा 006c
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय 007a
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव 007c
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः 008a
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु 008c
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ 009a
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु 009c
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् 010a
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् 010c
बलं बलवतां चाहं कामरागविवर्जितम् 011a
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ 011c
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये 012a
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि 012c
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् 013a
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् 013c
दैवी ह्येषा गुणमयी मम माया दुरत्यया 014a
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते 014c
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः 015a
माययापहृतज्ञाना आसुरं भावमाश्रिताः 015c
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन 016a
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ 016c
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते 017a
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः 017c
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् 018a
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् 018c
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते 019a
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः 019c
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः 020a
तं तं नियममास्थाय प्रकृत्या नियताः स्वया 020c
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति 021a
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् 021c
स तया श्रद्धया युक्तस्तस्या राधनमीहते 022a
लभते च ततः कामान्मयैव विहितान्हि तान् 022c
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् 023a
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि 023c
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः 024a
परं भावमजानन्तो ममाव्ययमनुत्तमम् 024c
नाहं प्रकाशः सर्वस्य योगमायासमावृतः 025a
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् 025c
वेदाहं समतीतानि वर्तमानानि चार्जुन 026a
भविष्याणि च भूतानि मां तु वेद न कश्चन 026c
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत 027a
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप 027c
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् 028a
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः 028c
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये 029a
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् 029c
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः 030a
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः 030c