श्रीभगवानुवाच 001
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः 001a
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः 001c
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव 002a
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन 002c
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते 003a
योगारूढस्य तस्यैव शमः कारणमुच्यते 003c
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते 004a
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते 004c
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् 005a
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः 005c
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः 006a
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् 006c
जितात्मनः प्रशान्तस्य परमात्मा समाहितः 007a
शीतोष्णसुखदुःखेषु तथा मानावमानयोः 007c
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः 008a
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः 008c
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु 009a
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते 009c
योगी युञ्जीत सततमात्मानं रहसि स्थितः 010a
एकाकी यतचित्तात्मा निराशीरपरिग्रहः 010c
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः 011a
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् 011c
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः 012a
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये 012c
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः 013a
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् 013c
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः 014a
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः 014c
युञ्जन्नेवं सदात्मानं योगी नियतमानसः 015a
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति 015c
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः 016a
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन 016c
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु 017a
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा 017c
यदा विनियतं चित्तमात्मन्येवावतिष्ठते 018a
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा 018c
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता 019a
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः 019c
यत्रोपरमते चित्तं निरुद्धं योगसेवया 020a
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति 020c
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् 021a
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः 021c
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः 022a
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते 022c
तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् 023a
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा 023c
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः 024a
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः 024c
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया 025a
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् 025c
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् 026a
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् 026c
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् 027a
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् 027c
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः 028a
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते 028c
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि 029a
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः 029c
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति 030a
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति 030c
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः 031a
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते 031c
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन 032a
सुखं वा यदि वा दुःखं स योगी परमो मतः 032c
अर्जुन उवाच 033
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन 033a
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् 033c
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् 034a
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् 034c
श्रीभगवानुवाच 035
असंशयं महाबाहो मनो दुर्निग्रहं चलम् 035a
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते 035c
असंयतात्मना योगो दुष्प्राप इति मे मतिः 036a
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः 036c
अर्जुन उवाच 037
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः 037a
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति 037c
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति 038a
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि 038c
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः 039a
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते 039c
श्रीभगवानुवाच 040
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते 040a
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति 040c
प्राप्य पुण्यकृताल्ँलोकानुषित्वा शाश्वतीः समाः 041a
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते 041c
अथ वा योगिनामेव कुले भवति धीमताम् 042a
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् 042c
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् 043a
यतते च ततो भूयः संसिद्धौ कुरुनन्दन 043c
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः 044a
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते 044c
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः 045a
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् 045c
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः 046a
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन 046c
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना 047a
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः 047c