अर्जुन उवाच 001
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि 001a
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् 001c
श्रीभगवानुवाच 002
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ 002a
तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते 002c
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति 003a
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते 003c
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः 004a
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् 004c
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते 005a
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति 005c
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः 006a
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति 006c
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः 007a
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते 007c
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् 008a
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् 008c
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि 009a
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् 009c
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः 010a
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा 010c
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि 011a
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये 011c
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् 012a
अयुक्तः कामकारेण फले सक्तो निबध्यते 012c
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी 013a
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् 013c
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः 014a
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते 014c
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः 015a
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः 015c
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः 016a
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् 016c
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः 017a
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः 017c
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि 018a
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः 018c
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः 019a
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः 019c
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् 020a
स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः 020c
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् 021a
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते 021c
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते 022a
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः 022c
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् 023a
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः 023c
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः 024a
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति 024c
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः 025a
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः 025c
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् 026a
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् 026c
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः 027a
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ 027c
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः 028a
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः 028c
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् 029a
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति 029c