श्रीभगवानुवाच 001
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् 001a
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् 001c
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः 002a
स कालेनेह महता योगो नष्टः परन्तप 002c
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः 003a
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् 003c
अर्जुन उवाच 004
अपरं भवतो जन्म परं जन्म विवस्वतः 004a
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति 004c
श्रीभगवानुवाच 005
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन 005a
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप 005c
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् 006a
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया 006c
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत 007a
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् 007c
परित्राणाय साधूनां विनाशाय च दुष्कृताम् 008a
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे 008c
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः 009a
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन 009c
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः 010a
बहवो ज्ञानतपसा पूता मद्भावमागताः 010c
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् 011a
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः 011c
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः 012a
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा 012c
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः 013a
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् 013c
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा 014a
इति मां योऽभिजानाति कर्मभिर्न स बध्यते 014c
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः 015a
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् 015c
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः 016a
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् 016c
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः 017a
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः 017c
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः 018a
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् 018c
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः 019a
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः 019c
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः 020a
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः 020c
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः 021a
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् 021c
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः 022a
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते 022c
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः 023a
यज्ञायाचरतः कर्म समग्रं प्रविलीयते 023c
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् 024a
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना 024c
दैवमेवापरे यज्ञं योगिनः पर्युपासते 025a
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति 025c
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति 026a
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति 026c
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे 027a
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते 027c
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे 028a
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः 028c
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे 029a
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः 029c
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति 030a
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः 030c
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् 031a
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम 031c
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे 032a
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे 032c
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप 033a
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते 033c
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया 034a
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः 034c
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव 035a
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि 035c
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः 036a
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि 036c
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन 037a
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा 037c
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते 038a
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति 038c
श्रद्धावाल्ँलभते ज्ञानं तत्परः संयतेन्द्रियः 039a
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति 039c
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति 040a
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः 040c
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् 041a
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय 041c
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः 042a
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत 042c