अर्जुन उवाच 001
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन 001a
तत्किं कर्मणि घोरे मां नियोजयसि केशव 001c
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे 002a
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् 002c
श्रीभगवानुवाच 003
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ 003a
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् 003c
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते 004a
न च सन्न्यसनादेव सिद्धिं समधिगच्छति 004c
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् 005a
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः 005c
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् 006a
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते 006c
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन 007a
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते 007c
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः 008a
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः 008c
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः 009a
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर 009c
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः 010a
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् 010c
देवान्भावयतानेन ते देवा भावयन्तु वः 011a
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ 011c
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः 012a
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः 012c
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः 013a
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् 013c
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः 014a
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः 014c
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् 015a
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् 015c
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः 016a
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति 016c
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः 017a
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते 017c
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन 018a
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः 018c
तस्मादसक्तः सततं कार्यं कर्म समाचर 019a
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः 019c
कर्मणैव हि संसिद्धिमास्थिता जनकादयः 020a
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि 020c
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः 021a
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते 021c
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन 022a
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि 022c
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः 023a
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः 023c
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् 024a
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः 024c
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत 025a
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् 025c
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् 026a
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् 026c
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः 027a
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते 027c
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः 028a
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते 028c
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु 029a
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् 029c
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा 030a
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः 030c
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः 031a
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः 031c
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् 032a
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः 032c
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि 033a
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति 033c
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ 034a
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ 034c
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् 035a
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः 035c
अर्जुन उवाच 036
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः 036a
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः 036c
श्रीभगवानुवाच 037
काम एष क्रोध एष रजोगुणसमुद्भवः 037a
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् 037c
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च 038a
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् 038c
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा 039a
कामरूपेण कौन्तेय दुष्पूरेणानलेन च 039c
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते 040a
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् 040c
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ 041a
पाप्मानं प्रजहिह्येनं ज्ञानविज्ञाननाशनम् 041c
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः 042a
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः 042c
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना 043a
जहि शत्रुं महाबाहो कामरूपं दुरासदम् 043c