सञ्जय उवाच 001
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् 001a
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः 001c
श्रीभगवानुवाच 002
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् 002a
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन 002c
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते 003a
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप 003c
अर्जुन उवाच 004
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन 004a
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन 004c
गुरूनहत्वा हि महानुभावाञ्श्रेयो भोक्तुं भैक्षमपीह लोके 005a
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् 005c
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः 006a
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः 006c
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः 007a
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् 007c
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् 008a
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् 008c
सञ्जय उवाच 009
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप 009a
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह 009c
तमुवाच हृषीकेशः प्रहसन्निव भारत 010a
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः 010c
श्रीभगवानुवाच 011
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे 011a
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः 011c
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः 012a
न चैव न भविष्यामः सर्वे वयमतः परम् 012c
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा 013a
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति 013c
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः 014a
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत 014c
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ 015a
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते 015c
नासतो विद्यते भावो नाभावो विद्यते सतः 016a
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः 016c
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् 017a
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति 017c
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः 018a
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत 018c
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् 019a
उभौ तौ न विजानीतो नायं हन्ति न हन्यते 019c
न जायते म्रियते वा कदा चिन्नायं भूत्वा भविता वा न भूयः 020a
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे 020c
वेदाविनाशिनं नित्यं य एनमजमव्ययम् 021a
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् 021c
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि 022a
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही 022c
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः 023a
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः 023c
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च 024a
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः 024c
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते 025a
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि 025c
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् 026a
तथापि त्वं महाबाहो नैनं शोचितुमर्हसि 026c
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च 027a
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि 027c
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत 028a
अव्यक्तनिधनान्येव तत्र का परिदेवना 028c
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः 029a
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् 029c
देही नित्यमवध्योऽयं देहे सर्वस्य भारत 030a
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि 030c
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि 031a
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते 031c
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् 032a
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् 032c
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि 033a
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि 033c
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् 034a
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते 034c
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः 035a
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् 035c
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः 036a
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् 036c
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् 037a
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः 037c
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ 038a
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि 038c
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु 039a
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि 039c
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते 040a
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् 040c
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन 041a
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् 041c
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः 042a
वेदवादरताः पार्थ नान्यदस्तीति वादिनः 042c
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् 043a
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति 043c
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् 044a
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते 044c
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन 045a
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् 045c
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके 046a
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः 046c
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन 047a
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि 047c
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय 048a
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते 048c
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय 049a
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः 049c
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते 050a
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् 050c
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः 051a
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् 051c
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति 052a
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च 052c
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला 053a
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि 053c
अर्जुन उवाच 054
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव 054a
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् 054c
श्रीभगवानुवाच 055
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् 055a
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते 055c
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः 056a
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते 056c
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् 057a
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता 057c
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः 058a
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता 058c
विषया विनिवर्तन्ते निराहारस्य देहिनः 059a
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते 059c
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः 060a
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः 060c
तानि सर्वाणि संयम्य युक्त आसीत मत्परः 061a
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता 061c
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते 062a
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते 062c
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः 063a
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति 063c
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् 064a
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति 064c
प्रसादे सर्वदुःखानां हानिरस्योपजायते 065a
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते 065c
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना 066a
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् 066c
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते 067a
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि 067c
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः 068a
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता 068c
या निशा सर्वभूतानां तस्यां जागर्ति संयमी 069a
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः 069c
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् 070a
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी 070c
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः 071a
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति 071c
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति 072a
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति 072c