धृतराष्ट्र उवाच 001
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः 001a
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय 001c
सञ्जय उवाच 002
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा 002a
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् 002c
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् 003a
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता 003c
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि 004a
युयुधानो विराटश्च द्रुपदश्च महारथः 004c
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् 005a
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः 005c
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् 006a
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः 006c
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम 007a
नायका मम सैन्यस्य सञ्ज्ञार्थं तान्ब्रवीमि ते 007c
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः 008a
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च 008c
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः 009a
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः 009c
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् 010a
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् 010c
अयनेषु च सर्वेषु यथाभागमवस्थिताः 011a
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 011c
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः 012a
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् 012c
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः 013a
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् 013c
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ 014a
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः 014c
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः 015a
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः 015c
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः 016a
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ 016c
काश्यश्च परमेष्वासः शिखण्डी च महारथः 017a
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः 017c
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते 018a
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् 018c
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् 019a
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् 019c
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः 020a
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः 020c
हृषीकेशं तदा वाक्यमिदमाह महीपते 021a
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत 021c
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् 022a
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे 022c
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः 023a
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः 023c
एवमुक्तो हृषीकेशो गुडाकेशेन भारत 024a
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् 024c
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् 025a
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति 025c
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् 026a
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा 026c
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि 027a
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् 027c
कृपया परयाविष्टो विषीदन्निदमब्रवीत् 028a
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् 028c
सीदन्ति मम गात्राणि मुखं च परिशुष्यति 029a
वेपथुश्च शरीरे मे रोमहर्षश्च जायते 029c
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते 030a
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः 030c
निमित्तानि च पश्यामि विपरीतानि केशव 031a
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे 031c
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च 032a
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा 032c
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च 033a
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च 033c
आचार्याः पितरः पुत्रास्तथैव च पितामहाः 034a
मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा 034c
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन 035a
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते 035c
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन 036a
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः 036c
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् 037a
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव 037c
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः 038a
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् 038c
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् 039a
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन 039c
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः 040a
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत 040c
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः 041a
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः 041c
सङ्करो नरकायैव कुलघ्नानां कुलस्य च 042a
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः 042c
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः 043a
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः 043c
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन 044a
नरके नियतं वासो भवतीत्यनुशुश्रुम 044c
अहो बत महत्पापं कर्तुं व्यवसिता वयम् 045a
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः 045c
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः 046a
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् 046c
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् 047a
विसृज्य सशरं चापं शोकसंविग्नमानसः 047c