सञ्जय उवाच 001
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् 001a
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ 001c
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः 002a
स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः 002c
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना 003a
धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् 003c
अनीकं दक्षिणं राजन्युयुधानेन पालितम् 004a
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता 004c
महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् 005a
युधिष्ठिरः काञ्चनभाण्डयोक्त्रं समास्थितो नागकुलस्य मध्ये 005c
समुच्छ्रितं दान्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति 006a
प्रदक्षिणं चैनमुपाचरन्ति महर्षयः संस्तुतिभिर्नरेन्द्रम् 006c
पुरोहिताः शत्रुवधं वदन्तो महर्षिवृद्धाः श्रुतवन्त एव 007a
जप्यैश्च मन्त्रैश्च तथौषधीभिः समन्ततः स्वस्त्ययनं प्रचक्रुः 007c
ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान् 008a
कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेभ्यः 008c
सहस्रसूर्यः शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः 009a
रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः 009c
तमास्थितः केशवसङ्गृहीतं कपिध्वजं गाण्डिवबाणहस्तः 010a
धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदाचित् 010c
उद्वर्तयिष्यंस्तव पुत्रसेनामतीव रौद्रं स बिभर्ति रूपम् 011a
अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् 011c
स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता 012a
तं प्रेक्ष्य मत्तर्षभसिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् 012c
समीक्ष्य सेनाग्रगतं दुरासदं प्रविव्यथुः पङ्कगता इवोष्ट्राः 013a
वृकोदरं वारणराजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः 013c
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् 014a
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः 014c
वासुदेव उवाच 015
य एष गोप्ता प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च 015a
स एष भीष्मः कुरुवंशकेतुर्येनाहृतास्त्रिंशतो वाजिमेधाः 015c
एतान्यनीकानि महानुभावं गूहन्ति मेघा इव घर्मरश्मिम् 016a
एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण 016c
धृतराष्ट्र उवाच 017
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय 017a
उदग्रमनसः केऽत्र के वा दीना विचेतसः 017c
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने 018a
मामकाः पाण्डवानां वा तन्ममाचक्ष्व सञ्जय 018c
कस्य सेनासमुदये गन्धमाल्यसमुद्भवः 019a
वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् 019c
सञ्जय उवाच 020
उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा 020a
स्रग्धूपपानगन्धानामुभयत्र समुद्भवः 020c
संहतानामनीकानां व्यूढानां भरतर्षभ 021a
संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् 021c
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः 022a
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् 022c