सञ्जय उवाच 001
बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम् 001a
विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः 001c
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः 002a
अभेद्यमिव सम्प्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् 002c
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे 003a
धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः 003c
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना 004a
कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा 004c
ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन 005a
कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति 005c
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा 006a
विषण्णमभिसम्प्रेक्ष्य तव राजन्ननीकिनीम् 006c
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि 007a
जयन्त्यल्पतरा येन तन्निबोध विशां पते 007c
तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे 008a
नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव 008c
एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत् 009a
पितामहः किल पुरा महेन्द्रादीन्दिवौकसः 009c
न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः 010a
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च 010c
त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः 011a
युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः 011c
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः 012a
यथा मे नारदः प्राह यतः कृष्णस्ततो जयः 012c
गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम् 013a
अन्यथा विजयश्चास्य सन्नतिश्चापरो गुणः 013c
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः 014a
पुरुषः सनातनतमो यतः कृष्णस्ततो जयः 014c
पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः 015a
सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति 015c
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम् 016a
तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः 016c
तस्य ते न व्यथां काञ्चिदिह पश्यामि भारत 017a
यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः 017c