धृतराष्ट्र उवाच 001
सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् 001a
मामका वा भीष्मनेत्राः समीके पाण्डवा वा भीमनेत्रास्तदानीम् 001c
केषां जघन्यौ सोमसूर्यौ सवायू केषां सेनां श्वापदा व्याभषन्त 002a
केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् 002c
सञ्जय उवाच 003
उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र 003a
उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे 003c
उभे सेने बृहती भीमरूपे तथैवोभे भारत दुर्विषह्ये 004a
तथैवोभे स्वर्गजयाय सृष्टे तथा ह्युभे सत्पुरुषार्यगुप्ते 004c
पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः 005a
दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् 005c
शुक्रो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याभषन्त 006a
गजेन्द्राणां मदगन्धांश्च तीव्रान्न सेहिरे तव पुत्रस्य नागाः 006c
दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् 007a
समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च 007c
चन्द्रप्रभं श्वेतमस्यातपत्रं सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे 008a
तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैः पाति गान्धारराजः 008c
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सशङ्खः 009a
श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशः 009c
तस्य सैन्यं धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च 010a
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ तथा सौवीराः पञ्चनदाश्च शूराः 010c
शोणैर्हयै रुक्मरथो महात्मा द्रोणो महाबाहुरदीनसत्त्वः 011a
आस्ते गुरुः प्रयशाः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभिरक्षन् 011c
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च 012a
शाल्वा मत्स्याः केकयाश्चापि सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः 012c
शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी 013a
शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभिपाति 013c
महारथैरन्धकवृष्णिभोजैः सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः 014a
बृहद्बलः कृतवर्माभिगुप्तो बलं त्वदीयं दक्षिणतोऽभिपाति 014c
संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः 015a
येनार्जुनस्तेन राजन्कृतास्त्राः प्रयाता वै ते त्रिगर्ताश्च शूराः 015c
साग्रं शतसहस्रं तु नागानां तव भारत 016a
नागे नागे रथशतं शतं चाश्वा रथे रथे 016c
अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः 017a
एवं व्यूढान्यनीकानि भीष्मेण तव भारत 017c
अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् 018a
दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः 018c
महारथौघविपुलः समुद्र इव पर्वणि 019a
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि 019c
अनन्तरूपा ध्वजिनी त्वदीया नरेन्द्र भीमा न तु पाण्डवानाम् 020a
तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां यस्या नेतारौ केशवश्चार्जुनश्च 020c