धृतराष्ट्र उवाच 001
अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः 001a
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः 001c
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् 002a
कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः 002c
सञ्जय उवाच 003
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः 003a
अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् 003c
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः 004a
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् 004c
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह 005a
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः 005c
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव 006a
तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः 006c
एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् 007a
अचलं नाम वज्राख्यं विहितं वज्रपाणिना 007c
यः स वात इवोद्धूतः समरे दुःसहः परैः 008a
स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः 008c
तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः 009a
अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः 009c
यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः 010a
निवर्तिष्यन्ति सम्भ्रान्ताः सिंहं क्षुद्रमृगा इव 010c
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् 011a
भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः 011c
न हि सोऽस्ति पुमाल्ँलोके यः सङ्क्रुद्धं वृकोदरम् 012a
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् 012c
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् 013a
चरन्वेगेन महता समुद्रमपि शोषयेत् 013c
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् 014a
एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर 014c
धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् 015a
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष 015c
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे 015e
एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः 016a
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा 016c
सम्प्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः 017a
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत 017c
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः 018a
नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् 018c
समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः 019a
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः 019c
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती 020a
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः 020c
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः 021a
सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः 021c
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः 022a
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ 022c
पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः 023a
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 023c
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः 024a
बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव 024c
अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः 025a
विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी 025c
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः 026a
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः 026c
समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः 027a
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् 027c
त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् 028a
अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः 028c
पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः 029a
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः 029c
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः 030a
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः 030c
क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः 031a
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः 031c
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् 032a
प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः 032c
तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् 033a
न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके 033c
वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः 034a
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना 034c
यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् 035a
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः 035c
सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति 036a
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् 036c
विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः 037a
रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् 037c
पपात महती चोल्का प्राङ्मुखी भरतर्षभ 038a
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना 038c
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ 039a
निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह 039c
व्यशीर्यत सनादा च तदा भरतसत्तम 039e
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् 040a
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किञ्चन 040c
ध्वजानां धूयमानानां सहसा मातरिश्वना 041a
किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः 041c
महतां सपताकानामादित्यसमतेजसाम् 042a
सर्वं झणझणीभूतमासीत्तालवनेष्विव 042c
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः 043a
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् 043c
स्रंसन्त इव मज्जानो योधानां भरतर्षभ 044a
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् 044c