सञ्जय उवाच 001
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः 001a
अश्रूयत महाराज योधानां प्रयुयुत्सताम् 001c
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः 002a
रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा 002c
हयानां हेषमाणानां योधानां तत्र गर्जताम् 003a
क्षणेन खं दिशश्चैव शब्देनापूरितं तदा 003c
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च 004a
समकम्पन्त सैन्यानि परस्परसमागमे 004c
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः 005a
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः 005c
ध्वजा बहुविधाकारास्तावकानां नराधिप 006a
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः 006c
स्वेषां चैव परेषां च समदृश्यन्त भारत 007a
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव 007c
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः 008a
सन्नद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव 008c
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः 009a
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः 009c
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप 010a
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा 010c
विविंशतिश्चित्रसेनो विकर्णश्च महारथः 011a
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः 011c
रथा विंशतिसाहस्रास्तथैषामनुयायिनः 012a
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 012c
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा 013a
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः 013c
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः 014a
महता रथवंशेन तेऽभ्यरक्षन्पितामहम् 014c
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् 015a
मागधो येन नृपतिस्तद्रथानीकमन्वयात् 015c
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् 016a
अभूवन्वाहिनीमध्ये शतानामयुतानि षट् 016c
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः 017a
अनेकशतसाहस्रा नखरप्रासयोधिनः 017c
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत 018a
अदृश्यन्त महाराज गङ्गेव यमुनान्तरे 018c