सञ्जय उवाच 001
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् 001a
तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः 001c
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत 002a
दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः 002c
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत 003a
ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि 003c
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः 004a
लिप्समानाः शरीराणि मांसशोणितभोजनाः 004c
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः 005a
भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ 005c
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिन्दमौ 006a
युयुधाते तवार्थाय यथा स समयः कृतः 006c
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव 007a
समानीय महीपालानिदं वचनमब्रवीत् 007c
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् 008a
गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् 008c
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः 009a
सम्भावयत चात्मानमव्यग्रमनसो युधि 009c
नाभागो हि ययातिश्च मान्धाता नहुषो नृगः 010a
संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः 010c
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे 011a
यदाजौ निधनं याति सोऽस्य धर्मः सनातनः 011c
एवमुक्ता महीपाला भीष्मेण भरतर्षभ 012a
निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः 012c
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः 013a
न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ 013c
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः 014a
निर्ययुः सिंहनादेन नादयन्तो दिशो दश 014c
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः 015a
तान्यनीकान्यशोभन्त रथैरथ पदातिभिः 015c
भेरीपणवशब्दैश्च पटहानां च निस्वनैः 016a
रथनेमिनिनादैश्च बभूवाकुलिता मही 016c
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः 017a
भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव 017c
तालेन महता भीष्मः पञ्चतारेण केतुना 018a
विमलादित्यसङ्काशस्तस्थौ कुरुचमूपतिः 018c
ये त्वदीया महेष्वासा राजानो भरतर्षभ 019a
अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते 019c
स तु गोवासनः शैब्यः सहितः सर्वराजभिः 020a
ययौ मातङ्गराजेन राजार्हेण पताकिना 020c
पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः 020e
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः 021a
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः 021c
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः 022a
एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः 022c
स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः 022e
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् 023a
भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः 023c
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता 024a
केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह 024c
अनेकशतसाहस्रमनीकमनुकर्षतः 025a
महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः 025c
तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः 026a
क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः 026c
स्यन्दनेन महार्हेण केतुना वृषभेण च 027a
प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ 027c
तदङ्गपतिना गुप्तं कृपेण च महात्मना 028a
शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् 028c
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः 029a
शुशुभे केतुमुख्येन राजतेन जयद्रथः 029c
शतं रथसहस्राणां तस्यासन्वशवर्तिनः 030a
अष्टौ नागसहस्राणि सादिनामयुतानि षट् 030c
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् 031a
अनन्तरथनागाश्वमशोभत महद्बलम् 031c
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च 032a
पतिः सर्वकलिङ्गानां ययौ केतुमता सह 032c
तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः 033a
यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः 033c
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः 034a
श्वेतच्छत्रेण निष्केण चामरव्यजनेन च 034c
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् 035a
आस्थितः समरे राजन्मेघस्थ इव भानुमान् 035c
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः 036a
भगदत्तो ययौ राजा यथा वज्रधरस्तथा 036c
गजस्कन्धगतावास्तां भगदत्तेन सम्मितौ 037a
विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ 037c
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् 038a
वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः 038c
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च 039a
तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च 039c