सञ्जय उवाच 001
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि 001a
न तु दुर्योधने दोषमिममासक्तुमर्हसि 001c
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः 002a
एनसा तेन नान्यं स उपाशङ्कितुमर्हति 002c
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् 003a
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् 003c
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया 004a
अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने 004c
हयानां च गजानां च शूराणां चामितौजसाम् 005a
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च 005c
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः 006a
दिष्टमेतत्पुरा नूनमेवम्भावि नराधिप 006c
नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते 007a
यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् 007c
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च 008a
परचित्तस्य विज्ञानमतीतानागतस्य च 008c
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा 009a
शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः 009c
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् 010a
भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् 010c
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः 011a
दुर्योधनो महाराज दुःशासनमथाब्रवीत् 011c
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः 012a
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय 012c
अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः 013a
पाण्डवानां ससैन्यानां कुरूणां च समागमः 013c
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् 014a
हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् 014c
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् 015a
श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम 015c
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः 016a
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः 016c
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः 017a
सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् 017c
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् 018a
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना 018c
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् 019a
गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः 019c
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः 020a
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु 020c
ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् 021a
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति 021c
शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत 022a
हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा 022c
गजानां बृंहतां चैव योधानां चाभिगर्जताम् 023a
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् 023c
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः 024a
सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः 024c
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च 024e
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः 025a
विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः 025c
रथानीकान्यदृश्यन्त नगराणीव भूरिशः 026a
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् 026c
धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः 027a
योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः 027c
गजा रथाः पदाताश्च तुरगाश्च विशां पते 028a
व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः 028c
ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः 029a
स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः 029c
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः 030a
अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः 030c
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव 031a
सन्नद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः 031c
उद्यतैरायुधैश्चित्रास्तलबद्धाः कलापिनः 032a
ऋषभाक्षा मनुष्येन्द्राश्चमूमुखगता बभुः 032c
शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः 033a
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः 033c
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च पार्थिवः 034a
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्वतः 034c
दशैते पुरुषव्याघ्राः शूराः परिघबाहवः 035a
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः 035c
एते चान्ये च बहवो दुर्योधनवशानुगाः 036a
राजानो राजपुत्राश्च नीतिमन्तो महाबलाः 036c
सन्नद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः 037a
बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः 037c
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः 038a
समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः 038c
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः 039a
अग्रतः सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः 039c
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् 040a
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् 040c
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् 041a
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः 041c
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः 042a
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः 042c
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा 043a
धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः 043c
एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत 044a
पाण्डवानां तथा सप्त महापुरुषपालिताः 044c
उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ 045a
युगान्ते समुपेतौ द्वौ दृश्येते सागराविव 045c
नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः 046a
अनीकानां समेतानां समवायस्तथाविधः 046c