धृतराष्ट्र उवाच 001
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना 001a
कथं रथात्स न्यपतत्पिता मे वासवोपमः 001c
कथमासंश्च मे पुत्रा हीना भीष्मेण सञ्जय 002a
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा 002c
तस्मिन्हते महासत्त्वे महेष्वासे महाबले 003a
महारथे नरव्याघ्रे किमु आसीन्मनस्तदा 003c
आर्तिः परा माविशति यतः शंससि मे हतम् 004a
कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् 004c
के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः 005a
केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय 005c
के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् 006a
रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः 006c
यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा 007a
सहस्ररश्मिप्रतिमः परेषां भयमादधत् 007c
अकरोद्दुष्करं कर्म रणे कौरवशासनात् 007e
ग्रसमानमनीकानि य एनं पर्यवारयन् 008a
कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके 008c
कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् 008e
निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् 009a
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् 009c
अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् 010a
पातयामास कौन्तेयः कथं तमजितं युधि 010c
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे 011a
परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः 011c
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे 012a
कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः 012c
परिकृष्य स सेनां मे दशरात्रमनीकहा 013a
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् 013c
यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् 014a
जघान युधि योधानामर्बुदं दशभिर्दिनैः 014c
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः 015a
मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः 015c
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी 016a
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् 016c
कथं भीष्मेण सङ्ग्राममकुर्वन्पाण्डुनन्दनाः 017a
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय 017c
कृपे सन्निहिते तत्र भरद्वाजात्मजे तथा 018a
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः 018c
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना 019a
भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः 019c
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् 020a
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् 020c
तं हतं समरे भीष्मं महारथबलोचितम् 021a
सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे 021c
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् 022a
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् 022c
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः 023a
कच्चिन्न कुरवो भीतास्तत्यजुः सञ्जयाच्युतम् 023c
मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् 024a
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः 024c
यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् 025a
निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् 025c
इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् 026a
कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् 026c
गदासिमकरावर्तं हयग्राहं गजाकुलम् 026e
हयान्गजान्पदातांश्च रथांश्च तरसा बहून् 027a
निमज्जयन्तं समरे परवीरापहारिणम् 027c
विदह्यमानं कोपेन तेजसा च परन्तपम् 028a
वेलेव मकरावासं के वीराः पर्यवारयन् 028c
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा 029a
दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् 029c
केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः 030a
पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः 030c
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके 031a
केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः 031c
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् 032a
समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् 032c
पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् 033a
समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय 033c
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते 034a
दुर्जयानामनीकानि नाजयंस्तरसा युधि 034c
सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः 035a
कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः 035c
यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः 036a
तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय 036c
यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः 037a
न पाण्डवानगणयत्कथं स निहतः परैः 037c
यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः 038a
काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः 038c
यस्मिञ्जाते महावीर्ये शन्तनुर्लोकशङ्करे 039a
शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि 039c
प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् 040a
वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् 040c
सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् 041a
हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम् 041c
धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः 042a
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः 042c
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः 043a
अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः 043c
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् 044a
हतं शंससि भीष्मं मे किं नु दुःखमतः परम् 044c
असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः 045a
जामदग्न्यस्तथा रामः परवीरनिघातिना 045c
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् 046a
तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः 046c
यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् 047a
परमास्त्रविदं वीरं जघान भरतर्षभम् 047c
के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि 048a
शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः 048c
योषेव हतवीरा मे सेना पुत्रस्य सञ्जय 049a
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम 049c
पौरुषं सर्वलोकस्य परं यस्य महाहवे 050a
परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा 050c
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय 051a
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् 051c
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः 052a
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः 052c
अद्रिसारमयं नूनं सुदृढं हृदयं मम 053a
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते 053c
यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे 054a
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि 054c
न चास्त्रेण न शौर्येण तपसा मेधया न च 055a
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते 055c
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः 056a
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय 056c
पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन् 057a
आशंसेऽहं पुरा त्राणं भीष्माच्छन्तनुनन्दनात् 057c
यदादित्यमिवापश्यत्पतितं भुवि सञ्जय 058a
दुर्योधनः शान्तनवं किं तदा प्रत्यपद्यत 058c
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् 059a
शेषं किञ्चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् 059c
दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः 060a
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः 060c
वयं वा राज्यमिच्छामो घातयित्वा पितामहम् 061a
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः 061c
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय 062a
पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् 062c
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् 063a
कथं शान्तनवं तात पाण्डुपुत्रा न्यपातयन् 063c
कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः 064a
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः 064c
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः 065a
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् 065c
यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् 066a
शरशक्तिगदाखड्गतोमराक्षां भयावहाम् 066c
प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् 067a
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः 067c
केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः 068a
अन्ये भीष्माच्छान्तनवात्तन्ममाचक्ष्व सञ्जय 068c
न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् 069a
पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् 069c
आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् 070a
त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि सञ्जय 070c
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् 071a
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः 071c
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् 072a
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय 072c
सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धिसम्भवम् 073a
अपनीतं सुनीतं वा तन्ममाचक्ष्व सञ्जय 073c
यत्कृतं तत्र भीष्मेण सङ्ग्रामे जयमिच्छता 074a
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः 074c
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः 075a
क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् 075c