वैशम्पायन उवाच 001
अथ गावल्गणिर्धीमान्समरादेत्य सञ्जयः 001a
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् 001c
ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः 002a
आचष्ट निहतं भीष्मं भरतानाममध्यमम् 002c
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ 003a
हतो भीष्मः शान्तनवो भरतानां पितामहः 003c
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् 004a
शरतल्पगतः सोऽद्य शेते कुरुपितामहः 004c
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् 005a
स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना 005c
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे 006a
जिगायैकरथेनैव काशिपुर्यां महारथः 006c
जामदग्न्यं रणे राममायोध्य वसुसम्भवः 007a
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना 007c
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव 008a
समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः 008c
शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः 009a
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः 009c
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे 010a
प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः 010c
परिरक्ष्य स सेनां ते दशरात्रमनीकहा 011a
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् 011c
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः 012a
जघान युधि योधानामर्बुदं दशभिर्दिनैः 012c
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः 013a
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत 013c