सञ्जय उवाच 001
उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा 001a
यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे 001c
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः 002a
सुरोदः सागरश्चैव तथान्यो घर्मसागरः 002c
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप 003a
सर्वतश्च महाराज पर्वतैः परिवारिताः 003c
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् 004a
पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप 004c
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः 005a
प्रजापतिमुपासीनः प्रजानां विदधे सुखम् 005c
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह 006a
सम्पूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप 006c
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः 007a
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा 007c
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् 008a
यत्र नित्यं निवसति श्रीमान्कमललोचनः 008c
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः 008e
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः 009a
सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः 009c
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः 010a
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः 010c
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः 011a
तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः 011c
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् 012a
तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् 012c
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् 013a
सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः 013c
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर 014a
विहरन्ति रमन्ते च न तेषु म्रियते जनः 014c
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप 015a
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव 015c
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर 016a
यथाश्रुतं महाराज तदव्यग्रमनाः शृणु 016c
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः 017a
क्रौञ्चात्परो वामनको वामनादन्धकारकः 017c
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः 018a
मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः 018c
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः 019a
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन 019c
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु 020a
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः 020c
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह 021a
उष्णात्परः प्रावरकः प्रावरादन्धकारकः 021c
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः 022a
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः 022c
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप 023a
एते देशा महाराज देवगन्धर्वसेविताः 023c
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् 024a
तत्र नित्यं निवसति स्वयं देवः प्रजापतिः 024c
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः 025a
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप 025c
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत 026a
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन 026c
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च 027a
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः 027c
एको जनपदो राजन्द्वीपेष्वेतेषु भारत 028a
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते 028c
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः 029a
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा 029c
स राजा स शिवो राजन्स पिता स पितामहः 030a
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः 030c
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् 031a
सिद्धमेव महाराज भुञ्जते तत्र नित्यदा 031c
ततः परं समा नाम दृश्यते लोकसंस्थितिः 032a
चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् 032c
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसम्मताः 033a
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः 033c
सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः 033e
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे 034a
असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा 034c
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च 035a
असम्बाधा महाराज तान्निगृह्णन्ति ते गजाः 035c
पुष्करैः पद्मसङ्काशैर्वर्ष्मवद्भिर्महाप्रभैः 036a
ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः 036c
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः 037a
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः 037c
धृतराष्ट्र उवाच 038
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः 038a
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय 038c
सञ्जय उवाच 039
उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः 039a
स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः 039c
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः 040a
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै 040c
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ 041a
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा 041c
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः 042a
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् 042c
एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः 042e
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन 043a
विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् 043c
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ 044a
श्रूयते परमोदारः पतङ्गोऽसौ विभावसुः 044c
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत 044e
स राहुश्छादयत्येतौ यथाकालं महत्तया 045a
चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः 045c
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा 046a
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि 046c
यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत् 047a
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति 047c
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् 048a
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसम्मतः 048c
आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते 048e
यः शृणोति महीपाल पर्वणीदं यतव्रतः 049a
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः 049c
इदं तु भारतं वर्षं यत्र वर्तामहे वयम् 050a
पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि 050c