धृतराष्ट्र उवाच 001
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय 001a
विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः 001c
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन 002a
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय 002c
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च 003a
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा 003c
सञ्जय उवाच 004
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् 004a
सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा 004c
अष्टादश सहस्राणि योजनानां विशां पते 005a
षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः 005c
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः 006a
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः 006c
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः 007a
सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः 007c
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव 008a
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन 008c
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप 009a
विष्कम्भेण महाराज सागरोऽपि विभागशः 009c
क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः 009e
तत्र पुण्या जनपदा न तत्र म्रियते जनः 010a
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते 010c
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ 011a
उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि 011c
धृतराष्ट्र उवाच 012
शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय 012a
उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः 012c
सञ्जय उवाच 013
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः 013a
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु 013c
अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप 013e
देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते 014a
प्रागायतो महाराज मलयो नाम पर्वतः 014c
यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः 014e
ततः परेण कौरव्य जलधारो महागिरिः 015a
यत्र नित्यमुपादत्ते वासवः परमं जलम् 015c
यतो वर्षं प्रभवति वर्षाकाले जनेश्वर 015e
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः 016a
रेवती दिवि नक्षत्रं पितामहकृतो विधिः 016c
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः 017a
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर 017c
धृतराष्ट्र उवाच 018
सुमहान्संशयो मेऽद्य प्रोक्तं सञ्जय यत्त्वया 018a
प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह 018c
सञ्जय उवाच 019
सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन 019a
गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप 019c
श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत 020a
आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः 020c
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः 021a
केसरी केसरयुतो यतो वातः प्रवायति 021c
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः 022a
वर्षाणि तेषु कौरव्य सम्प्रोक्तानि मनीषिभिः 022c
महामेरुर्महाकाशो जलदः कुमुदोत्तरः 023a
जलधारात्परो राजन्सुकुमार इति स्मृतः 023c
रैवतस्य तु कौमारः श्यामस्य तु मणीचकः 024a
केसरस्याथ मोदाकी परेण तु महापुमान् 024c
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च 025a
जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः 025c
शाको नाम महाराज तस्य द्वीपस्य मध्यगः 026a
तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः 026c
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च 027a
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत 027c
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते 028a
दीर्घायुषो महाराज जरामृत्युविवर्जिताः 028c
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः 029a
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः 029c
सुकुमारी कुमारी च सीता कावेरका तथा 030a
महानदी च कौरव्य तथा मणिजला नदी 030c
इक्षुवर्धनिका चैव तथा भरतसत्तम 030e
ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह 031a
सहस्राणां शतान्येव यतो वर्षति वासवः 031c
न तासां नामधेयानि परिमाणं तथैव च 032a
शक्यते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः 032c
तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः 033a
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा 033c
मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप 034a
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः 034c
मानसेषु महाराज वैश्याः कर्मोपजीविनः 035a
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः 035c
शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः 035e
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः 036a
स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम् 036c
एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् 037a
एतावदेव श्रोतव्यं शाकद्वीपे महौजसि 037c