धृतराष्ट्र उवाच 001
भारतस्यास्य वर्षस्य तथा हैमवतस्य च 001a
प्रमाणमायुषः सूत फलं चापि शुभाशुभम् 001c
अनागतमतिक्रान्तं वर्तमानं च सञ्जय 002a
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च 002c
सञ्जय उवाच 003
चत्वारि भारते वर्षे युगानि भरतर्षभ 003a
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन 003c
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो 004a
सङ्क्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते 004c
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम 005a
आयुःसङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम 005c
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप 006a
द्विसहस्रं द्वापरे तु शते तिष्ठति सम्प्रति 006c
न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ 007a
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च 007c
महाबला महासत्त्वाः प्रजागुणसमन्विताः 008a
अजायन्त कृते राजन्मुनयः सुतपोधनाः 008c
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः 009a
जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः 009c
आयुष्मन्तो महावीरा धनुर्धरवरा युधि 010a
जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः 010c
सर्ववर्णा महाराज जायन्ते द्वापरे सति 011a
महोत्साहा महावीर्याः परस्परवधैषिणः 011c
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप 012a
लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत 012c
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च 013a
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत 013c
सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप 014a
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् 014c