धृतराष्ट्र उवाच 001
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् 001a
यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम 001c
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः 002a
एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि सञ्जय 002c
सञ्जय उवाच 003
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम 003a
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः 003c
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः 004a
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् 004c
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् 005a
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च 005c
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः 006a
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च 006c
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च 007a
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा 007c
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् 008a
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् 008c
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिन्दम 009a
शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि 009c
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि 010a
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः 010c
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः 011a
अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः 011c
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः 012a
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो 012c
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् 013a
गोदावरीं नर्मदां च बाहुदां च महानदीम् 013c
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् 014a
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् 014c
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् 015a
इरावतीं वितस्तां च पयोष्णीं देविकामपि 015c
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम् 016a
करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् 016c
गोमतीं धूतपापां च वन्दनां च महानदीम् 017a
कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् 017c
रथस्थां शतकुम्भां च सरयूं च नरेश्वर 018a
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा 018c
शतावरीं पयोष्णीं च परां भैमरथीं तथा 019a
कावेरीं चुलुकां चापि वापीं शतबलामपि 019c
निचीरां महितां चापि सुप्रयोगां नराधिप 020a
पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् 020c
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा 021a
पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् 021c
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् 022a
पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा 022c
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव 023a
सदानीरामधृष्यां च कुशधारां महानदीम् 023c
शशिकान्तां शिवां चैव तथा वीरवतीमपि 024a
वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् 024c
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् 025a
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् 025c
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् 026a
वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् 026c
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि 027a
शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् 027c
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् 028a
कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् 028c
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् 029a
चरक्षां महिरोहीं च तथा जम्बुनदीमपि 029c
सुनसां तमसां दासीं त्रसामन्यां वराणसीम् 030a
लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् 030c
मानवीं वृषभां चैव महानद्यो जनाधिप 031a
सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् 031c
ब्रह्माणीं च महागौरीं दुर्गामपि च भारत 032a
चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् 032c
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् 033a
शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् 033c
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् 034a
कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत 034c
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष 035a
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः 035c
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः 036a
इत्येताः सरितो राजन्समाख्याता यथास्मृति 036c
अत ऊर्ध्वं जनपदान्निबोध गदतो मम 037a
तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः 037c
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च 038a
मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः 038c
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः 039a
उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह 039c
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगन्धराः 040a
सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः 040c
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत 041a
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः 041c
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः 042a
अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः 042c
आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् 043a
वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः 043c
विदेहका मागधाश्च सुह्माश्च विजयास्तथा 044a
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च 044c
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः 045a
वाहीका वाटधानाश्च आभीराः कालतोयकाः 045c
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः 046a
अटवीशबराश्चैव मरुभौमाश्च मारिष 046c
उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा 047a
कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः 047c
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च 048a
बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः 048c
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप 049a
पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा 049c
शका निषादा निषधास्तथैवानर्तनैरृताः 050a
दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा 050c
तीरग्राहास्तरतोया राजिका रस्यकागणाः 051a
तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः 051c
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा 052a
अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा 052c
दर्वीकाः सकचा दर्वा वातजामरथोरगाः 053a
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः 053c
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा 054a
वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः 054c
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः 055a
किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः 055c
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष 056a
अथापरे जनपदा दक्षिणा भरतर्षभ 056c
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः 057a
उन्नत्यका माहिषका विकल्पा मूषकास्तथा 057c
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः 058a
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः 058c
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः 059a
ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः सर्वसेनयः 059c
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसञ्चरकास्तथा 060a
तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह 060c
मालका मल्लकाश्चैव तथैवापरवर्तकाः 061a
कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा 061c
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः 062a
आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा 062c
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः 063a
उत्तराश्चापरे म्लेच्छा जना भरतसत्तम 063c
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः 064a
सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह 064c
तथैव मरधाश्चीनास्तथैव दशमालिकाः 065a
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च 065c
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह 066a
खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः 066c
आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः 067a
औपकाश्च कलिङ्गाश्च किरातानां च जातयः 067c
तामरा हंसमार्गाश्च तथैव करभञ्जकाः 068a
उद्देशमात्रेण मया देशाः सङ्कीर्तिताः प्रभो 068c
यथागुणबलं चापि त्रिवर्गस्य महाफलम् 069a
दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता 069c
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः 070a
ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः 070c
देवमानुषकायानां कामं भूमिः परायणम् 071a
अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् 071c
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् 072a
न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् 072c
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः 073a
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव 073c
पिता माता च पुत्रश्च खं द्यौश्च नरपुङ्गव 074a
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी 074c