धृतराष्ट्र उवाच 001
वर्षाणां चैव नामानि पर्वतानां च सञ्जय 001a
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः 001c
सञ्जय उवाच 002
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु 002a
वर्षं रमणकं नाम जायन्ते तत्र मानवाः 002c
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः 003a
रतिप्रधानाश्च तथा जायन्ते तत्र मानवाः 003c
दश वर्षसहस्राणि शतानि दश पञ्च च 004a
जीवन्ति ते महाराज नित्यं मुदितमानसाः 004c
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण च 005a
वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी 005c
यक्षानुगा महाराज धनिनः प्रियदर्शनाः 006a
महाबलास्तत्र सदा राजन्मुदितमानसाः 006c
एकादश सहस्राणि वर्षाणां ते जनाधिप 007a
आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च 007c
शृङ्गाणि वै शृङ्गवतस्त्रीण्येव मनुजाधिप 008a
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् 008c
सर्वरत्नमयं चैकं भवनैरुपशोभितम् 009a
तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली 009c
उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप 010a
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् 010c
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः 011a
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः 011c
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः 012a
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः 012c
अनिष्पन्दाः सुगन्धाश्च निराहारा जितेन्द्रियाः 013a
देवलोकच्युताः सर्वे तथा विरजसो नृप 013c
त्रयोदश सहस्राणि वर्षाणां ते जनाधिप 014a
आयुष्प्रमाणं जीवन्ति नरा भरतसत्तम 014c
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः 015a
हरिर्वसति वैकुण्ठः शकटे कनकात्मके 015c
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् 016a
अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम् 016c
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ 017a
सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता च सः 017c
पृथिव्यापस्तथाकाशं वायुस्तेजश्च पार्थिव 018a
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः 018c
वैशम्पायन उवाच 019
एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः 019a
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप 019c
स विचिन्त्य महाराज पुनरेवाब्रवीद्वचः 020a
असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् 020c
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् 020e
नरो नारायणश्चैव सर्वज्ञः सर्वभूतभृत् 021a
देवा वैकुण्ठ इत्याहुर्वेदा विष्णुरिति प्रभुम् 021c