धृतराष्ट्र उवाच 001
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय 001a
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् 001c
सञ्जय उवाच 002
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे 002a
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः 002c
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः 003a
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च 003c
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप 004a
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप 004c
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् 005a
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च 005c
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका 006a
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप 006c
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः 007a
तुल्यरूपगुणोपेताः समेषु विषमेषु च 007c
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः 008a
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् 008c
मिथुनं जायमानं वै समं तच्च प्रवर्धते 009a
तुल्यरूपगुणोपेतं समवेषं तथैव च 009c
एकैकमनुरक्तं च चक्रवाकसमं विभो 009e
निरामया वीतशोका नित्यं मुदितमानसाः 010a
दश वर्षसहस्राणि दश वर्षशतानि च 010c
जीवन्ति ते महाराज न चान्योन्यं जहत्युत 010e
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः 011a
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च 011c
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः 012a
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् 012c
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते 013a
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः 013c
कालाम्रश्च महाराज नित्यपुष्पफलः शुभः 014a
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः 014c
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः 015a
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः 015c
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः 016a
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः 016c
दश वर्षसहस्राणि तत्रायुर्भरतर्षभ 017a
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः 017c
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु 018a
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः 018c
सर्वकामफलः पुण्यः सिद्धचारणसेवितः 019a
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः 019c
योजनानां सहस्रं च शतं च भरतर्षभ 020a
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर 020c
अरत्नीनां सहस्रं च शतानि दश पञ्च च 021a
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् 021c
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् 022a
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् 022c
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप 023a
मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् 023c
पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप 024a
तस्मिन्फलरसे पीते न जरा बाधते च तान् 024c
तत्र जाम्बूनदं नाम कनकं देवभूषणम् 025a
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः 025c
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् 026a
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ 026c
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका 027a
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः 027c
महारजतसङ्काशा जायन्ते तत्र मानवाः 028a
ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः 028c
तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः 029a
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् 029c
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च 030a
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् 030c
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च 031a
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम 031c