धृतराष्ट्र उवाच 001
उक्तो द्वीपस्य सङ्क्षेपो विस्तरं ब्रूहि सञ्जय 001a
यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे 001c
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् 001e
वैशम्पायन उवाच 002
एवमुक्तः स राज्ञा तु सञ्जयो वाक्यमब्रवीत् 002a
प्रागायता महाराज षडेते रत्नपर्वताः 002c
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ 002e
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः 003a
नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः 003c
सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः 003e
एते वै पर्वता राजन्सिद्धचारणसेविताः 004a
तेषामन्तरविष्कम्भो योजनानि सहस्रशः 004c
तत्र पुण्या जनपदास्तानि वर्षाणि भारत 005a
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः 005c
इदं तु भारतं वर्षं ततो हैमवतं परम् 006a
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते 006c
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च 007a
प्रागायतो महाराज माल्यवान्नाम पर्वतः 007c
ततः परं माल्यवतः पर्वतो गन्धमादनः 008a
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः 008c
आदित्यतरुणाभासो विधूम इव पावकः 009a
योजनानां सहस्राणि षोडशाधः किल स्मृतः 009c
उच्चैश्च चतुराशीतिर्योजनानां महीपते 010a
ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति 010c
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो 011a
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत 011c
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः 011e
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल 012a
स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् 012c
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् 013a
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् 013c
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः 014a
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् 014c
स पर्वतो महाराज दिव्यपुष्पफलान्वितः 015a
भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः 015c
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः 016a
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः 016c
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः 017a
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः 017c
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः 018a
अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो 018c
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः 019a
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि 019c
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते 020a
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः 020c
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते 021a
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति 021c
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् 022a
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् 022c
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः 023a
उमासहायो भगवान्रमते भूतभावनः 023c
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् 024a
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः 024c
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः 025a
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः 025c
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर 026a
त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना 026c
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा 027a
पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे 027c
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः 027e
तां धारयामास पुरा दुर्धरां पर्वतैरपि 028a
शतं वर्षसहस्राणां शिरसा वै महेश्वरः 028c
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते 029a
जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः 029c
आयुर्दश सहस्राणि वर्षाणां तत्र भारत 030a
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः 030c
अनामया वीतशोका नित्यं मुदितमानसाः 031a
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः 031c
गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः 032a
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः 032c
गन्धमादनपादेषु परेष्वपरगण्डिकाः 033a
एकादश सहस्राणि वर्षाणां परमायुषः 033c
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः 034a
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः 034c
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् 035a
वर्षमैरावतं नाम ततः शृङ्गवतः परम् 035c
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे 036a
इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह 036c
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः 037a
आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः 037c
समन्वितानि भूतानि तेषु वर्षेषु भारत 038a
एवमेषा महाराज पर्वतैः पृथिवी चिता 038c
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः 039a
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते 039c
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति 040a
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः 040c
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् 041a
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः 041c
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः 041e
यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः 042a
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः 042c
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः 043a
उपास्यते तिग्मतेजा वृतो भूतैः समागतैः 043c
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः 043e
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता 044a
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते 044c
वस्वोकसारा नलिनी पावना च सरस्वती 045a
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी 045c
अचिन्त्या दिव्यसङ्कल्पा प्रभोरेषैव संविधिः 046a
उपासते यत्र सत्रं सहस्रयुगपर्यये 046c
दृश्यादृश्या च भवति तत्र तत्र सरस्वती 047a
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः 047c
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः 048a
सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः 048c
देवासुराणां च गृहं श्वेतः पर्वत उच्यते 049a
गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप 049c
शृङ्गवांस्तु महाराज पितॄणां प्रतिसञ्चरः 049e
इत्येतानि महाराज सप्त वर्षाणि भागशः 050a
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च 050c
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी 051a
अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता 051c
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् 052a
पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे 052c
कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च 052e
ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः 053a
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् 053c