धृतराष्ट्र उवाच 001
नदीनां पर्वतानां च नामधेयानि सञ्जय 001a
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः 001c
प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः 002a
निखिलेन समाचक्ष्व काननानि च सञ्जय 002c
सञ्जय उवाच 003
पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् 003a
जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः 003c
भूमिरापस्तथा वायुरग्निराकाशमेव च 004a
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः 004c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः 005a
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः 005c
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते 006a
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः 006c
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च 006e
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु 007a
वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः 007c
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा 008a
यदा तु विषमीभावमाविशन्ति परस्परम् 008c
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा 008e
आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः 009a
सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् 009c
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः 010a
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते 010c
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् 011a
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् 011c
सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन 012a
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः 012c
नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः 013a
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा 013c
वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् 014a
लावणेन समुद्रेण समन्तात्परिवारितः 014c
यथा च पुरुषः पश्येदादर्शे मुखमात्मनः 015a
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले 015c
द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् 016a
सर्वौषधिसमावापैः सर्वतः परिबृंहितः 016c
आपस्ततोऽन्या विज्ञेया एष सङ्क्षेप उच्यते 016e