वैशम्पायन उवाच 001
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते 001a
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत 001c
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः 002a
सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ 002c
सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः 003a
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि 003c
पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः 004a
न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम् 004c
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् 005a
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय 005c
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च 006a
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले 006c
देशानां च परीमाणं नगराणां च सञ्जय 007a
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः 007c
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा 008a
प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः 008c
सञ्जय उवाच 009
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् 009a
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ 009c
द्विविधानीह भूतानि त्रसानि स्थावराणि च 010a
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः 010c
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः 011a
जरायुजानां प्रवरा मानवाः पशवश्च ये 011c
नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश 012a
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः 012c
सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा 013a
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप 013c
गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः 014a
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः 014c
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश 015a
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः 015c
ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् 016a
सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् 016c
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः 017a
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः 017c
एषां विंशतिरेकोना महाभूतेषु पञ्चसु 018a
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसम्मता 018c
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् 019a
तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति 019c
भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति 020a
भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम् 020c
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् 021a
तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् 021c