वैशम्पायन उवाच 001
एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम 001a
पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् 001c
पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः 002a
असंशयं पार्थिवेन्द्र कालः सङ्क्षिपते जगत् 002c
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् 003a
ज्ञातीनां च कुरूणां च सम्बन्धिसुहृदां तथा 003c
धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे 004a
क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् 004c
कालोऽयं पुत्ररूपेण तव जातो विशां पते 005a
न वधः पूज्यते वेदे हितं नैतत्कथञ्चन 005c
हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् 006a
कालेनोत्पथगन्तासि शक्ये सति यथापथि 006c
कुलस्यास्य विनाशाय तथैव च महीक्षिताम् 007a
अनर्थो राज्यरूपेण त्यज्यतामसुखावहः 007c
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान् 008a
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् 008c
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि 009a
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः 009c
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः 010a
आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः 010c
धृतराष्ट्र उवाच 011
यथा भवान्वेद तथास्मि वेत्ता भावाभावौ विदितौ मे यथावत् 011a
स्वार्थे हि सम्मुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि 011c
प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः 012a
न चापि ते वशगा मे महर्षे न कल्मषं कर्तुमिहार्हसे माम् 012c
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः 013a
कुरूणां पाण्डवानां च मान्यश्चासि पितामहः 013c
व्यास उवाच 014
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते 014a
अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् 014c
धृतराष्ट्र उवाच 015
यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम् 015a
तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः 015c
व्यास उवाच 016
प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः 016a
पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः 016c
गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र 017a
विशुद्धरश्मिस्तपनः शशी च जयस्यैतद्भाविनो रूपमाहुः 017c
इष्टा वाचः पृष्ठतो वायसानां सम्प्रस्थितानां च गमिष्यतां च 018a
ये पृष्ठतस्ते त्वरयन्ति राजन्ये त्वग्रतस्ते प्रतिषेधयन्ति 018c
कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश्च यत्र 019a
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ध्रुवं जयं तत्र वदन्ति विप्राः 019c
अलङ्कारैः कवचैः केतुभिश्च मुखप्रसादैर्हेमवर्णैश्च नॄणाम् 020a
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषां चमूस्ते विजयन्ति शत्रून् 020c
हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत 021a
न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् 021c
इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः 022a
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते 022c
शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः 023a
सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः 023c
अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च 024a
अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च 024c
एतानि जयमानानां लक्षणानि विशां पते 025a
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप 025c
अल्पायां वा महत्यां वा सेनायामिति निश्चितम् 026a
हर्षो योधगणस्यैकं जयलक्षणमुच्यते 026c
एको दीर्णो दारयति सेनां सुमहतीमपि 027a
तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि 027c
दुर्निवारतमा चैव प्रभग्ना महती चमूः 028a
अपामिव महावेगस्त्रस्ता मृगगणा इव 028c
नैव शक्या समाधातुं सन्निपाते महाचमूः 029a
दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि 029c
भीतान्भग्नांश्च सम्प्रेक्ष्य भयं भूयो विवर्धते 029e
प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः 030a
नैव स्थापयितुं शक्या शूरैरपि महाचमूः 030c
सम्भृत्य महतीं सेनां चतुरङ्गां महीपतिः 031a
उपायपूर्वं मेधावी यतेत सततोत्थितः 031c
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् 032a
जघन्य एष विजयो यो युद्धेन विशां पते 032c
महादोषः सन्निपातस्ततो व्यङ्गः स उच्यते 032e
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः 033a
पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् 033c
अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः 033e
न वैनतेयो गरुडः प्रशंसति महाजनम् 034a
दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत 034c
न बाहुल्येन सेनाया जयो भवति भारत 035a
अध्रुवो हि जयो नाम दैवं चात्र परायणम् 035c
जयन्तो ह्यपि सङ्ग्रामे क्षयवन्तो भवन्त्युत 035e