व्यास उवाच 001
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः 001a
अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः 001c
गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान् 002a
क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान् 002c
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः 003a
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः 003c
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः 004a
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः 004c
तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम् 005a
वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव 005c
गोवत्सं वडवा सूते श्वा सृगालं महीपते 006a
क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः 006c
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः 007a
ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च 007c
पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि 008a
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् 008c
प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः 009a
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः 009c
उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः 009e
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च 010a
विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति 010c
अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् 011a
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति 011c
अभावं हि विशेषेण कुरूणां प्रतिपश्यति 012a
धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति 012c
सेनयोरशिवं घोरं करिष्यति महाग्रहः 013a
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः 013c
भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते 014a
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते 014c
उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते 014e
श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः 015a
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति 015c
ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते 016a
चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः 016c
वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः 017a
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः 017c
सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी 018a
पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः 018c
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् 019a
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत 019c
निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् 020a
व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं समुपस्थितम् 020c
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च 021a
कवचानां ध्वजानां च भविष्यति महान्क्षयः 021c
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः 022a
अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम् 022c
एकपक्षाक्षिचरणः शकुनिः खचरो निशि 023a
रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः 023c
ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ 024a
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् 024c
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ 025a
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ 025c
कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् 026a
वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः 026c
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते 027a
बुधः सम्पततेऽभीक्ष्णं जनयन्सुमहद्भयम् 027c
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् 028a
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् 028c
चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम् 029a
अपर्वणि ग्रहावेतौ प्रजाः सङ्क्षपयिष्यतः 029c
रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः 030a
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् 030c
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् 031a
अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः 031c
प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः 032a
फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव 032c
पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः 032e
अद्य चैव निशां व्युष्टामुदये भानुराहतः 033a
ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् 033c
आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः 034a
भूमिपालसहस्राणां भूमिः पास्यति शोणितम् 034c
कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः 035a
सहस्रशो महाशब्दं शिखराणि पतन्ति च 035c
महाभूता भूमिकम्पे चतुरः सागरान्पृथक् 036a
वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः 036c
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः 037a
पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च 037c
पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः 038a
वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः 038c
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते 038e
धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः 039a
मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा 039c
प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि 040a
गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः 040c
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च 041a
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् 041c
ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः 042a
रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः 042c
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् 043a
यथा लोकः समुच्छेदं नायं गच्छेत भारत 043c
वैशम्पायन उवाच 044
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् 044a
दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः 044c
क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे 045a
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् 045c
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् 046a
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे 046c