वैशम्पायन उवाच 001
ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः 001a
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः 001c
भविष्यति रणे घोरे भरतानां पितामहः 002a
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् 002c
वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् 003a
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा 003c
व्यास उवाच 004
राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः 004a
ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम् 004c
तेषु कालपरीतेषु विनश्यत्सु च भारत 005a
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः 005c
यदि त्विच्छसि सङ्ग्रामे द्रष्टुमेनं विशां पते 006a
चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय 006c
धृतराष्ट्र उवाच 007
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम 007a
युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा 007c
वैशम्पायन उवाच 008
तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति 008a
वराणामीश्वरो दाता सञ्जयाय वरं ददौ 008c
व्यास उवाच 009
एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति 009a
एतस्य सर्वं सङ्ग्रामे नपरोक्षं भविष्यति 009c
चक्षुषा सञ्जयो राजन्दिव्येनैष समन्वितः 010a
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति 010c
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा 011a
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः 011c
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः 012a
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते 012c
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ 013a
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः 013c
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि 014a
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः 014c
वैशम्पायन उवाच 015
एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः 015a
पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह 015c
इह युद्धे महाराज भविष्यति महान्क्षयः 016a
यथेमानि निमित्तानि भयायाद्योपलक्षये 016c
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः 017a
सम्पतन्ति वनान्तेषु समवायांश्च कुर्वते 017c
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः 018a
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् 018c
खटाखटेति वाशन्तो भैरवं भयवेदिनः 019a
कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् 019c
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत 020a
उदयास्तमने सूर्यं कबन्धैः परिवारितम् 020c
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः 021a
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत 021c
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम् 022a
अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति 022c
अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् 023a
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले 023c
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः 024a
राजानो राजपुत्राश्च शूराः परिघबाहवः 024c
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः 025a
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये 025c
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च 026a
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च 026c
अनाहता दुन्दुभयः प्रणदन्ति विशां पते 027a
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः 027c
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा 028a
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः 028c
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः 029a
अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः 029c
उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते 030a
आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत 030c
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मता 031a
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः 031c
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः 032a
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् 032c
अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम् 033a
वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः 033c