जनमेजय उवाच 001
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः 001a
पार्थिवाश्च महाभागा नानादेशसमागताः 001c
वैशम्पायन उवाच 002
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः 002a
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते 002c
अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः 003a
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः 003c
वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः 004a
आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे 004c
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् 005a
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः 005c
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः 006a
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः 006c
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता 007a
निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता 007c
यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् 008a
तावदेव समावृत्तं बलं पार्थिवसत्तम 008c
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् 009a
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च 009c
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ 010a
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् 010c
सञ्ज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः 011a
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत 011c
अभिज्ञानानि सर्वेषां सञ्ज्ञाश्चाभरणानि च 012a
योजयामास कौरव्यो युद्धकाल उपस्थिते 012c
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः 013a
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् 013c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 014a
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् 014c
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः 015a
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः 015c
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः 016a
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् 016c
ततो योधान्हर्षयन्तौ वासुदेवधनञ्जयौ 017a
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ 017c
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः 018a
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः 018c
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः 019a
त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा 019c
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन 020a
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः 020c
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् 021a
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् 021c
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः 022a
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः 022c
उभे सेने तदा राजन्युद्धाय मुदिते भृशम् 023a
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे 023c
तयोस्तु सेनयोरासीदद्भुतः स समागमः 024a
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव 024c
शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता 025a
तेन सेनासमूहेन समानीतेन कौरवैः 025c
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः 026a
धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ 026c
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् 027a
यथापुरं यथायोगं न च स्याच्छलनं पुनः 027c
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् 028a
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथञ्चन 028c
रथी च रथिना योध्यो गजेन गजधूर्गतः 029a
अश्वेनाश्वी पदातिश्च पदातेनैव भारत 029c
यथायोगं यथावीर्यं यथोत्साहं यथावयः 030a
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले 030c
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा 031a
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथञ्चन 031c
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु 032a
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन 032c
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः 033a
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् 033c
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः 034a
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः 034c