वैशम्पायन उवाच || 001
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः | 001a
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत || 001c
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् | 002a
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् || 002c
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् | 003a
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ || 003c
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः | 004a
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः | 004c
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव || 004e
सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः | 005a
दिदेश तान्यनीकानि प्रयाणाय महीपतिः || 005c
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः | 006a
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः || 006c
भीमं च युयुधानं च पाण्डवं च धनञ्जयम् | 007a
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः || 007c
भाण्डं समारोपयतां चरतां सम्प्रधावताम् | 008a
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् || 008c
स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः | 009a
तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः || 009c
भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता | 010a
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत || 010c
ततः पुनरनीकानि व्ययोजयत बुद्धिमान् | 011a
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् || 011c
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः | 012a
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् | 012c
दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः | 013a
अयुतं च पदातीनां रथाः पञ्चशतास्तथा || 013c
भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम् | 014a
मध्यमे तु विराटं च जयत्सेनं च मागधम् || 014c
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ | 015a
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ | 015c
अन्वयातां ततो मध्ये वासुदेवधनञ्जयौ || 015e
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः | 016a
तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः || 016c
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः | 017a
पदातयश्च ये शूराः कार्मुकासिगदाधराः | 017c
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः || 017e
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे | 018a
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः || 018c
तत्र नागसहस्राणि हयानामयुतानि च | 019a
तथा रथसहस्राणि पदातीनां च भारत | 019c
यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् || 019e
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः | 020a
नदन्तः प्रययुस्तेषामनीकानि सहस्रशः || 020c
तत्र भेरीसहस्राणि शङ्खानामयुतानि च | 021a
वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः || 021c