वैशम्पायन उवाच || 001
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः | 001a
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति || 001c
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः | 002a
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः || 002c
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः | 003a
सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः || 003c
आहवेषु पराल्ँलोकाञ्जिगीषन्तो महाबलाः | 004a
एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च || 004c
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह | 005a
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः || 005c
अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः | 006a
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः || 006c
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः | 007a
शकाः किराता यवनाः शिबयोऽथ वसातयः || 007c
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् | 008a
एते महारथाः सर्वे द्वितीये निर्ययुर्बले || 008c
कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः | 009a
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः || 009c
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः | 010a
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः || 010c
ते समेन पथा यात्वा योत्स्यमाना महारथाः | 011a
कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः || 011c
दुर्योधनस्तु शिबिरं कारयामास भारत | 012a
यथैव हास्तिनपुरं द्वितीयं समलङ्कृतम् || 012c
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा | 013a
कुशला अपि राजेन्द्र नरा नगरवासिनः || 013c
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः | 014a
कारयामास कौरव्यः शतशोऽथ सहस्रशः || 014c
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् | 015a
सेनानिवेशास्ते राजन्नाविशञ्शतसङ्घशः || 015c
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् | 016a
विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः || 016c
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् | 017a
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् || 017c
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः | 018a
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः || 018c
वणिजो गणिका वारा ये चैव प्रेक्षका जनाः | 019a
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत || 019c